This page has not been fully proofread.

सर: ]
 
हेत्वन्तरेण क्षणंभङ्गसाधनम्
 
371
 
भावप्रकाशः
 
एव विनाशः; अथापि 'भाव एव चलो विनश्यतीति कृत्वा विनाश इत्या-
ख्यायते ' इति भवदुक्तया यो विनश्यति तद्भावरूप एव विनाश इति
प्रतीयते । एवं ' जन्मतो नान्यथा स्थितिः' इत्युक्तया जन्मकाल एव
विनाशसत्ताकाल इति च । इत्थं च उत्पत्तिक्षण एव विनाशप्रतीतिरिति
महदिदं चित्रं । एवं धर्मधर्मिणोर्भेदमभ्युपगच्छतः परस्योपरि—
 
तथा हि नाशको हेतुर्न भावाव्यतिरेकिणः ।
नाशस्यं कारको युक्तः स्वहेतोर्भावजन्मतः ॥
 
३५८
 
इति भवदारोपितदोषः परावृत्य भवन्तमेवाश्रयति । पूर्वपूर्वक्षणनाशस्य
'उत्तरोत्तरक्षणरूपत्वाङ्गीकारे च सान्वयविनाशार्ङ्गाकारप्रसङ्गः । स्वभाव-
प्रच्युतिदशायामपि श्रीभाष्यादिसिद्धान्तितस्य निरन्वयविनाशासंभवस्य
अनुपदमेव व्यवस्थापयिष्यमाणतया विनाशप्रतीत्योर्वैलक्षण्ये विनिगम-
कविरहेण एकजातीयेनैव विनाशेन निर्वाहे एको वस्तुरूपः अन्यश्शश.
विषाणवदसन्निति विनाशद्वैविध्यकल्पनं स्वेच्छामात्र निबन्धनमेव ।
चलनदशायामपि पूर्वोत्तरक्षणयोस्तादाम्यानभ्युपगमेन पूर्वक्षणस्य निर-
न्वयविनाशसंभवेन भवत्पक्षेणोभयोरसत्त्वसंभवात् स्वभावप्रच्युतिदशायां
सिद्धान्तानुसारेण वस्तुनस्संभवेन उभयोर्वस्तुत्वसंभवाच्च । अतः
एकस्य वस्तुभूतस्य विनाशस्य अपरस्यावस्तुभूतस्य ध्वंसस्याङ्गीकरण-
मनुचितमिति । एतेन-
 
संतानोच्छेदरूपस्तु विनाशो यो न हेतुमान् ।
तस्यान्तेऽपि न भावोऽस्ति तथा जन्म तु वार्यते ॥
 
विलक्षणकपालादेरुत्पादस्तु सहेतुकः ।
 
४३९
 
सोऽप्यादौ जायते नैव तदा हेतोरसम्भवात् ॥
 
४४०
 
इत्युक्तिरप्यनुचितेति ।
 
24*