This page has not been fully proofread.

370
 
सव्याख्यसर्वार्थसिद्धिसहिततत्व मुक्ताकलापे
 
[जडद्रव्य
 
भावप्रकाशः
 
वस्त्वनन्तरभावित्वं न तत्र त्वस्ति तादृशि ।
चलभावस्वरूपस्य भावेनैव सहोदयात् ॥
अतो विनाशसद्भावान्न नित्यास्सर्व संस्कृताः ।
न विनाशीति बुद्धिश्च निर्निमित्ता प्रसज्यते ॥
भावध्वंसात्मनश्चैवं नाशस्यासत्त्वमिष्यते ।
 

 
३७६
 
३७७
 
वस्तुरूपवियोगेन न भावाभावरूपतः ॥
 
३८२
 
निवृत्तिरूपताऽप्यस्मिन् विधिना नाभिधीयते ।
 
वस्तुरूपानुवृत्तिश्च क्षणादूर्ध्वं निषिध्यते ॥
 
३८२
 
अतो व्यवस्थितं रूपं विहितं नास्य किञ्चन ।
 
इति नित्यविकल्पोऽस्मिन् क्रियमाणो निरास्पदः ॥
 
३८४
 
इति परिहार उक्तः । अत्र पञ्चिका – द्विविधो हि विनाशो विधेः प्रति-
षेधलक्षणः ; तथा हि-क्षणस्थितिधर्मा भाव एव चलो विनश्यतीति कृत्वा
विनाश इत्याख्यायते । यद्वा-भावस्वभावप्रच्युतिलक्षणप्रध्वंसापरनामा

विनशनं विनाश इति । अत्र विचार्यते -- पूर्वदेश संबन्धवियोगपूर्वकदेशा-
न्तरप्राप्तिदशायामेव चलनं सर्वसंप्रतिपन्नं । तदात्वे विनाशप्रतीतिर्न
संप्रतिपन्ना; किंतु चलनप्रतीतिरेव । चलनं च न वस्तुनो विनाशः ।
वस्तुस्वभावप्रच्युतिदशायामेव विनाशप्रतीतिः । सा च चलनमादाय न
विश्राम्यति । अत एव —
 
प्रथम कारणं जातमविनष्टं तदाच तत् ।
 
क्षणिकत्वात्तु तत्कार्यं क्षणकाले न वर्तते ॥
 
५०९
 
तस्मादनष्टात्तद्धेतोः प्रथमक्षणभाविनः ।
 
कार्यमुत्पद्यते शक्तौ द्वितीयक्षण एव तु ॥
 
५१२
 
इति भवदुक्तिसंगतिः । अस्तु धर्मधर्मिणोरभेदवादिनां भवतां चलनकाल