2025-01-21 07:38:09 by ambuda-bot
This page has not been fully proofread.
सरः]
हेत्वन्तरेण क्षणभङ्गसाधनम्
369
तत्वमुक्ताकलापः
उत्पन्नानां विनाशे ध्रुवभवितृतया हेत्वपेक्षाविहीने
सर्वार्थसिद्धिः
सत्तानुवन्धी विनाशः स्वरूपवत् न हेतुसापेक्षः झडित्ये वापतेत् ।
तस्मात् क्षणिकं सर्वमित्यनूद्य परिहरति — उत्पन्नानामिति ।
आनन्ददायिनी
तथा च विनाशः भावानामुत्पत्तिक्षणानन्तरभावी अहेतुकत्वे सति भावा-
नामवश्यम्भावित्वात् । य (घ) दहेतुकत्वे सति यस्यावश्यम्भावि तत्तदनन्तर-
क्षणभावि यथा घटस्यान्यापोह इति प्रयोगे हेत्वासिद्धिशङ्कापरिहाराय
ध्वंसो (भावस्य) हेतुनिरपेक्षः तस्य ध्रुवभावित्वात् अपोहवदिति प्रयोगो
द्रष्टव्यः । झडित्येव – उत्पत्त्यनन्तरमेव ।
-
भावप्रकाशः
सर्वसंस्कारनाशित्वप्रत्ययश्चानिमित्तकः ॥
नित्यत्वेऽपि सहस्थानं विनाशेनाविरोधतः ।
३७१
अजातस्य हि नाशोक्तिः नैव युक्तयनुपातिनी ॥
३७२
इत्युद्योतक राक्षेपस्य-
तदत्र कतमं नाशं परे पर्यनुयुञ्जते ?
किं क्षणस्थायधर्माणं भावमेव तथोदितम् ॥
३७३
अथ भावस्वरूपस्य निवृत्तिं ध्वंससंज्ञितम् ?
पूर्वपर्यनुयोगे हि नैव किञ्चिद्विरुध्यते ॥
यो हि भावः क्षणस्थायी विनाश इति गीयते ।
तं हेतुमन्तमिच्छामः पराभावात्त्वहेतुकम् ॥
SARVARTHA.
३७४
३७५
24