2025-01-21 07:38:09 by ambuda-bot
This page has not been fully proofread.
368
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
[जडद्रव्य
1
सर्वार्थसिद्धिः
'*न काचिदपि युक्तिस्यात् सर्वक्षणिकवादिनः ॥ २७ ॥
ननु * ' जातस्य हि ध्रुवो मृत्युः' इति प्रसिद्धं । अतस्सतां
आनन्ददायिनी
क्षणिकवादिमते ग्राहकः कर्ता नैकोऽस्ति । तस्मात्तद्गृहापेक्षा व्याप्तिग्रहः
तन्मूलश्च तर्कोऽनुमानं च न सम्भवतीत्यर्थः ॥ २७ ॥
पूर्वशेषतया न पृथक्संगतिरित्यभिप्रायेणाह – नन्विति । केचि -
दाक्षेपसंगतिमाह नन्वितीत्याहुः । मृत्युः -- विनाशः । जननं - सत्ता ।
भावप्रकाशः
कश्चित्' इति । अयं चार्थोऽग्रे स्थापयिप्यते । अतो व्याप्तिग्रहणोप-
पादनप्रयासः गुरूक्तिश्रद्धामात्रनिबन्धन एवेति । एतत्तात्पर्येण
न काचिदपि युक्तिस्स्यादित्युक्तम् ॥
* जातस्य हि ध्रुवो मृत्युरितीति - एतेन परोक्तध्रुव भावित्वहेतोः
पक्षसत्त्वस्य सिद्धान्तिसंमतत्वप्रदर्शनव्याजेन गीताभाष्योक्तदिशा तत्व-
संग्रहकृतो विनाशद्वैविध्यकल्पनमनुचितमिति सूचितं; तथाहि-
' उत्पत्तिविनाशादयस्सतो द्रव्यस्यावस्थाविशेषाः ' इत्यादिभाष्येण
उत्पाद इव विनाशोऽपि सहेतुकः असत्त्वाभाववांश्च प्रमाणप्रतिपन्न
इत्यादिकं स्थापितं । धर्मधर्मिणोर्भेदः एकस्यैव कालभेदेन नाना-
स्वभावयोगश्च संभवतीत्यत्रैव पूर्वं व्यवस्थापितं । संबन्धानुपपत्तिश्च परि-
हरिष्यते । अतः उत्पत्तिप्रतीतिरिव नाशसामान्यप्रतीतिः प्रमेति युक्तम् ।
तत्वसंग्रहे तु---
अहेतुकत्वात्किञ्चायं असन् वन्ध्यासुतादिवत् ।
अथवाऽऽकाशवन्नित्यो न प्रकारान्तरं यतः ॥ ३७० ॥
असत्त्वे सर्वभावानां नित्यत्वं स्यादनाशतः ।