This page has not been fully proofread.

सरः ]
 
परमते व्याप्तिग्रहसामान्यायोगः
 
367
 
भावप्रकाशः
 
सामान्यस्य प्रतिषेधहेतुत्वाभिधानपूर्वकं एकादशविधानुपलब्ध्यन्तर्गत-
व्यापकानुपलब्धेः 'व्यापकानुपलब्धिर्यथा नात्र शिंशपा वृक्षाभावादिति '
इति प्रतिषेधोदाहरणमुक्तं । एवं च ' व्यापकानुपलम्भात्मना विपर्यय--
बाधकप्रमाणेन व्याप्तेस्साधनात्' इत्युपक्रम्य ' ननु व्यापकानुपलब्धिरिति
यद्यनुपलब्धिमात्रं तदा न तस्य साध्यबुद्धिजनकत्वं अवस्तुत्वात् ।
नचान्योपलब्धिर्व्यापकानुपब्धिरभिधातुं शक्या ! भूतलादिवत् अन्यस्य
कस्यचिदनुपलब्धेोरिति चेत्; तदसङ्गतं धर्म्युपलब्धेरेवान्यत्राप्यनु-
पलब्धितया व्यवस्थापनात् । यथा नेह शिंशपा वृक्षाभावादित्यत्र वृक्षा-
पेक्षया केवलप्रदेशस्य धर्मिण उपलब्धिर्दृश्यानुपलब्धिः । शिंशपापेक्षया
च केवलप्रदेशस्य धर्मिण उपलब्धिरेव शिंशपाभावोपलब्धिरिति स्वभाव-
हेतु पर्यवसायिव्यापारो व्यापकानुपलम्भः । तथाहि नित्यस्य धर्मिणो
विकल्पबुद्ध्यवसितस्य क्रमिकारित्वाक्रमिकारित्वापेक्षया केवलग्रहणमेव
क्रमिकारित्वाक्रमिकारित्वानुपलम्भः अर्थक्रियापेक्षया च । केवलप्रतीति-
रेवार्थक्रियावियोगप्रतीतिरिति व्यापकानुपलम्भान्तरादस्य न कश्चिद्विशेषः '
इति रत्नकीर्तिना व्यापकानुपलब्धेः स्वभावहेतुपर्यवसायित्वाभिधान-
क्लेशोऽनुचितः । स्वभावहेतुना यत्सत् तत् क्षणिकमिति व्याप्तिसिद्धौ
व्यापकानुपलम्भप्रमाणसामञ्जस्यार्थं विफलबहुतरपरिक्लेशस्यानुचितत्वात् ।
व्यतिरेकस्य प्रमाणसिद्धता यत्र तत्रैव व्यतिरेकेणान्वयगतेस्संभवदुक्ति-
कत्वात् । एतत्तात्पर्येणैव तत्वसंग्रहकृताऽस्य प्रसङ्गहेतुत्वाभिधानं । न च
तदपि संभवति ! भवदुक्तदोषादेव । उक्तदिशा असपक्षेऽसत्त्वानिश्चया-
संभवेन हेतोस्त्रिरूपत्वासंभवाच्च । अत एव केवलान्वयिनीदं रूपं
त्यज्यते नैयायिकः । स्वभावहेतोरसंभवश्च न्यायपरिशुद्धावुक्तः । ' कथं
च तादात्म्ये लिङ्गलिङ्गिभावः ? तथात्वेन वा भेदे कथं तत् ।
यदि च शिंशपात्ववृक्षत्वयोरैक्यं ; सर्वोऽपि वृक्षरिंशशपैव स्यात् न वा