This page has not been fully proofread.

366
 
सव्याख्यंसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
भावप्रकाशः
 
[ जडद्रव्य
 

 
रोधोऽस्यैव । ननु नित्यत्वं क्रमयौगपद्यवत्त्वं च विरुद्धौ विधूय नापरो
विरोधो नाम ; कस्य वास्तवत्वम् ? इति चेत्; न; न हि धर्मान्तरस्य
संभवेन विरोधस्य पारमार्थिकत्वं ब्रूमः ! किंतु विरुद्धयोर्धर्मयोस्सद्भावे ।
अन्यथा विरोधनामधर्मान्तरसंभवेऽपि यदि न विरुद्धौ धर्मो क्व पारमार्थिक-
विरोधसद्भावः? विरुद्धौ च धर्मो; तावतैव तात्विको विरोधव्यवहारः । किम-
परेण प्रतिज्ञामात्रसिद्धेन विरोधनाम्ना वस्त्वन्तरेण?' इति च । इत्थं च न
कोऽपि दोष इति चेत्; उच्यते - वन्ध्यापुत्रादौ सौन्दर्यनिषेधो माभूदिति
त्विष्टमेव । शशविषाणादिशब्दोच्चारणोपपत्तिः बुद्धिसरे (२५) वक्ष्यते ॥
अवस्तुविषये प्रसङ्गे न व्यवहारः । अपि च —
 
किंच-
 
वस्तुत्वं यत्र तत्रास्ति विधिबाधाव्यवस्थितिः ।
इति व्याप्तया नयाभिज्ञाः प्रत्यूचुस्त्वद्गुरोर्गिरम् ॥
 
अङ्गीकरोषि यदवस्तु विकल्पसिद्धं
 
बाधाविधिव्यवहृतिं च विरुद्धधर्मौ ।
तद्वद्विरोधमपि तद्भवतो विरोधा-
 
सत्यत्वतः कुत इयं क्षणिकत्वसिद्धिः ? ॥
 
तथा हि विरुद्धधर्मव्यतिरेकेण विरोधधर्मोऽस्ति न वा ? आद्ये तस्य पार-
मार्थ्याङ्गीकारे अवस्तुनो वस्तुधर्मेण धर्मित्वं नास्तीति त्वत्सिद्धान्तविरोधः
वस्त्ववस्तुनोस्संबन्धानुपपत्तिश्च बुद्धिसरे विवेचयिष्यते । अपारमार्थ्ये
क्षणिकत्वस्य कथं परमार्थताः द्वितीये विरुद्धधर्मयोः परमार्थत्वे
सिद्धान्तविरोधः । तयोरपारमार्थे तद्व्यतिरेकेणाविद्यमानो विरोधः
परमार्थ इति भाषणं चक्षुषी निर्माल्य गुरूक्तिश्रद्धामात्रेणैवेति । अपि च
न्यायबिन्दौ धर्मकीर्तिना ' त्रीण्येव लिङ्गानि अनुपलब्धिः स्वभावकार्ये
चेति । अत्र द्वे वस्तुसाधने एकः प्रतिषेधहेतुः' इति अनुपलब्धि -