2025-01-21 07:38:07 by ambuda-bot
This page has not been fully proofread.
सर: ]
परमते व्याप्तिग्रहसामान्यायोगः
365
भावप्रकाशः
क्वाप्यस्ति चेत् ; कथमियन्ति न दूषणानि ?
नास्त्येव चेत् स्ववचनप्रतिरोधसिद्धिः ॥ '
इत्यारभ्य अक्षणिकस्याभावे सन्देहे वाऽवस्तुधर्मेण धर्मित्वमव्याहतमित्युक्तं ।
एवं 'वस्तुनस्तु प्रत्यक्षानुमानाभ्यामेव सिद्धिः । तयोरभावे नियमेना-
श्रयासिद्धिरिति युक्तम् । असत्तासाधने त्ववस्तुधर्मो हेतुरवस्तुनि
विकल्पमात्रासिद्धे धर्मिणि नाश्रयासिद्धिदोषेण दूषयितुं शक्यः ।
तथाऽक्षणिकस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधस्सिध्यत्येव । तथा
विकल्पादेवाक्षणिको विरोधी सिद्धः । विकल्पोल्लिखितश्चास्य स्वभावो
नापर इत्यपि व्यवहर्तव्यं । अन्यथा तदनुवादेन क्रमाक्रमादिरहित-
त्वादिनिषेधादिकमयुक्तं तत्स्वरूपस्यानुल्लेखादित्यक्षणिकशशविषाणादि-
शब्दानुच्चारणप्रसङ्गः । अस्ति च; अतो यथा प्रमाणाभावेऽपि विकल्प-
सत्त्वस्य वन्ध्यासुतादेस्सौन्दर्यादिनिषेधोऽनुरूपः ; तथा विकल्पोपनीत-
स्यैवाक्षणिकस्वरूपस्य तत्प्रत्यनीकाकारेण सह विरोधव्यवस्थायां कीदृशो
दोषस्स्यात्? यदि चाक्षणिकानुभवाभावाद्विरोधप्रतिषेधः तर्हि वन्ध्या-
पुत्राद्यननुभवादेव सौन्दर्यादिनिषेधोऽपि मा भूत् । नन्वेवं विरोधस्या-
पारमार्थिकत्वं; तद्वारेण क्षणभङ्गसिद्धिरप्यपारमार्थिकी स्यादिति चेत्;
न हि विरोधो नाम वस्त्वन्तरं किञ्चित् उभयकोटिदत्तपादं
संबद्धाभिधानमिष्यतेऽस्माभिरुपपद्यते वा ! येनैकसंबन्धिनो वस्तुत्वा-
भावेऽपारमार्थिकस्स्यात् । यथा त्विष्यते तथा पारमार्थिक एव ।
विरुद्धाभिमतयोरन्योन्यस्वरूपपरिहारमात्रं विरोधार्थः । तच्च भावा-
भावयोः पारमार्थिकमेव । न भावोऽभावरूपमाविशति । नाप्यभावो
भावरूपं प्रविशतीति योऽयमनयोरसङ्करानियमः स एव पारमार्थिको
विरोधः । कालान्तरैकरूपतया हि नित्यत्वम् ! । क्रमाक्रमौ क्षणद्वयोऽपि
भिन्नरूपतया । ततो नित्यत्वक्रमाक्रमिकार्य कारकत्वयोर्भावाभाववद्वि-