This page has not been fully proofread.

364
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
भावप्रकाशः
 
[जडद्रव्य
 
मकृत्वा सर्वोपसंहारेण व्याप्तिग्रहणं न संभवति देशकालान्तरा-
ननुगमात्; यथोक्तं कुमारिलेन --
 
न चान्वयविनिर्मुक्ता प्रवृत्तिर्लिङ्गशब्दयोः ।
 
इति । न च क्षणग्रहणे संतानग्रहणवत् रूपमात्रग्रहणे घटनिश्चयवच्च अत-
द्रूपपरावृत्तयोस्साध्यसाधनयोः प्रत्यक्षाध्यवसेयतया व्याप्तिग्रहोपपत्तिरिति
रत्नकीर्त्यक्तं युक्तं ; क्षणसंतानयोरूपघटयोश्चैकज्ञानीयैकजातीयविषयत्व-
 
मेवेत्यध्यवसेयत्वाख्याविलक्षणविषयताङ्गीकारस्यायुक्तत्वात् माध्यमिकैरप्य-
नुभवविरोधेन दूषितत्वाच्चेति बुद्धिसरे विवेचयिष्यमाणत्वात् । नापि
व्यापकानुपलम्भात्मना विपर्यये बाधकप्रमाणेन व्याप्तिग्रहस्संभवति; यस्य
क्रमाक्रभिकार्यविषयत्वं नास्ति न तच्छक्तं यथा शशविषाणं नास्ति
नित्याभिमतस्य भावस्य क्रमाक्रमिकार्यविषयत्वमिति व्यापकानुपलम्भस्य
अक्षणिकाज्ञानेऽसंभवात्। ' न ह्यस्माभिः स्वातन्त्र्येण प्रमाणतया व्यतिरेक-
साधिन्या अस्या व्यापकानुपलब्धेः प्रयोगः क्रियते ! किं तर्हि; प्रसङ्गा-
पादनं परं प्रति क्रियते ' इति तत्वसंग्रहपञ्चिकाक्तं तु न युक्तं ; एतत्पक्षस्य
क्षणभङ्गसिद्धौ ' न तावदयं प्रसङ्गो हेतुः साध्यधर्मिणि प्रमाणसिद्धत्वात्
पराभ्युपगमसिद्धत्वाभावात् विपर्ययपर्यवसानाभावाच्च' इति रत्नकीर्तिनैव
दूषितत्वात्। ननु क्षणभङ्गसिद्धौ रत्नकीर्तिना - ' इह वस्तुन्यपि धर्मिधर्म-
व्यवहारो दृष्टो यथा गवि गोत्वं पटे शुक्लत्वं तुरगे गमनमित्यादि । अवस्तु-
न्यपि धर्मिधर्मव्यवहारो दृष्टो यथा शशविषाणे तीक्ष्णत्वाभावो वन्ध्यापुत्रे
वक्रत्वाभावो गगनारविन्दे गन्धाभाव इत्यादि । तत्रावस्तुनि धर्मित्वं
नास्तीति किं वस्तुधर्मेण धर्मित्वं नास्ति आहो स्विदवस्तुधर्मेणापि ?
प्रथमपक्षे सिद्धसाधनं । द्वितीयपक्षे तु स्ववचनविरोधः । यदाहुर्गुरवः --
धर्मस्य कस्यचिदव[२०]स्तुनि मानसिद्धा
 
बाधा विधिव्यवहृतिः किमिहास्ति नो वा ।