2025-01-21 07:38:01 by ambuda-bot
This page has not been fully proofread.
रसः] पररीत्या प्रत्यक्षस्य वर्तमानग्राहित्वायोगः, व्याप्तिग्रहसामान्यायोगश्च 363
1
भावप्रकाशः
' अनुमानं द्विधा स्वार्थं परार्थं च । तत्र स्वार्थं त्रिरूपाल्लिङ्गाद्यदनुमेये
ज्ञानं तदनुमानम् । ( ७ परिच्छेदे ) । त्रिरूपलिङ्गाख्यानं परार्थानुमानं ।
कारणे कार्योपचारात् । तद्द्विविधं प्रयोगभेदात् । साधर्म्यवत् वैधर्म्यवच्चेति
नानयोरर्थतः कश्चिद्भेदः प्रयोगभेदात् । तथा स्वभावहेतोः प्रयोगः
यत्सत् तत्सर्वमनित्यं यथा घटादिरिति । कार्यहेतोरपि प्रयोगः यत्र
धूमस्तत्राग्निः यथा महानसादौ अस्ति चेह धूमः इति । वैधर्म्यवतः
प्रयोगो यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव यथा नीलादिविशेषः न
चैवमिहोपलब्धिलक्षणप्राप्तस्य सत उपलब्धिर्घटस्येति । अनुपलब्धिप्रयोगः
असत्यनित्यत्वे नास्ति सत्त्वमुत्पत्तिमत्त्वं वा असंश्च शब्द उत्पत्तिमान्
कृतको वेति । स्वभावहेतुप्रयोगः असत्यग्नौ न भवत्येव धूमोऽत्र चा-
स्तीति । कार्यहेतोः प्रयोग ः साधर्म्येणापि हि प्रयोगोऽर्थाद्वैधर्म्यगतिरिति ;
असति तस्मिन् साध्येन हेतोरन्वयाभावात् । तथा वैधर्म्येणाप्यन्वय-
गतिः ; असति तस्मिन् साध्याभावे हेत्वभावस्यासिद्धेः । न हि
स्वभावप्रतिबन्धेऽसत्येकस्य निवृत्तावपरस्य नियमेन निवृत्तिः । स च
द्विप्रकारः सर्वस्य तादात्म्यलक्षणः तदुत्पत्तिश्चेत्युक्तं । तेन हि निवृत्तिं
कथयता प्रतिबन्धो दर्शनीयः । तस्मात् निवृत्तिवचनमाक्षिप्तप्रतिबन्धोप-
दर्शनमेव भवति । यच्च प्रतिबन्धोपदर्शनं तदेवान्वयवचनमित्येकेनापि
वाक्येनान्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोः लिङ्गस्य
सदसत्त्वख्यापनं कृतं भवतीति नावश्यवाक्यद्वयप्रयोगः' इत्यन्तग्रन्थे
अन्वयप्रयोगे व्यतिरेकावगतिरिति प्रतिपादितं; तथाऽपि अक्षणिकस्या-
प्रामाणिकत्वे-
तद्रूपस्यैव चार्थस्य क्षणिकत्वं प्रसाध्यते ।
व्याप्तिस्सर्वोपसंहारा तस्मिन्नेवाभिधीयते ॥
इति तत्वसंग्रहोक्तदिशा यत्सत्तत् क्षणिकमिति पक्षसपक्षविभाग-