2025-01-21 07:37:58 by ambuda-bot
This page has not been fully proofread.
362
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[ जडद्रव्य
कस्य विकल्पबोधनाशक्तेः । सविकल्पकस्य तु प्रत्यक्षत्वानभ्यु -
पगमात् । न द्वितीयः; इन्द्रियसंयुक्तक्षणस्य तज्जन्यज्ञानकालेऽ-
तीतत्वात् तदुत्तरक्षणस्य स्वपूर्वक्षणेन्द्रियसम्प्रयोगायोगेन तज्ज-
न्यधीविषयत्वायोगात् । तदातनाक्षिसंप्रयोगस्य तु तात्का-
लिकबुद्धिहेतुत्वासिद्धेः । अतस्ते कथं प्रत्यक्षं वर्तमानग्राहि ?
अस्मन्मते त्विन्द्रियसंप्रयोगस्य तद्विशिष्टवस्तुनः तदुपहितका -
लांशस्य च स्थायित्वेन धीक्षणानुवृत्तौ तद्विषयतया प्रत्यक्षोद-
यात् । सम्प्रयोगानन्तरक्षणे धीरपि निवर्त्यते । अतो नासंग्र-
युक्तं नास्थिरं नावर्तमानं वा प्रत्यक्षमिति ।
'* पूर्वापरबहुव्यक्तिव्याप्तिग्रहणसंभवा ।
आनन्ददायिनी
द्वितीयं दूषयति – सविकल्पकस्येति । तथा च अप्रमाणत्वान्न तेन
प्रत्यभिज्ञाबाध इत्यर्थः । यद्यपि प्रत्यभिज्ञा प्रमाणं तन्मते ; तथाऽपि
विनिगमकाभावात् प्रत्यक्षतः क्षणिकत्वसिद्धिवत् स्थायित्वमपि सिध्यतीति
भावः । वर्तमानविषयत्वमिन्द्रियसंप्रयुक्तक्षणविषयतया उत तदुत्तरक्षण-
विषयतया ? इति विकल्पमभिप्रेत्य आद्यं दूषयति- इन्द्रियसंप्रयुक्तेति ।
क्षणिकवादिनो ज्ञानोत्पत्तिकाले तस्याभावादिति भावः । द्वितीयं दूष-
यति - तदुत्तरक्षणस्येति । प्रत्यक्षस्य सन्निकृष्टार्थगोचरत्वादिति भावः ।
तदात (नीन्त) नेति — पौर्वापर्याभावादिति भावः । आद्यद्वितीये आह-
अस्मन्मते त्विति । पूर्वापरेति – पौर्वकालिकीनामापरकालिकीनां व्यक्तीनां
सूक्तिमाकलय्याह—
भावप्रकाशः
1 * पूर्वा परबहुव्यक्तीत्यादि । यद्यपि न्यायबिन्दौ धर्मकीर्तिना-