2025-01-21 07:37:58 by ambuda-bot
This page has not been fully proofread.
सरः] वस्तुसाक्षात्कारतत्प्रत्यभिज्ञयोरविरुद्धविषयाता, परोक्तबाधकविकल्पश्च 361
-
सर्वार्थसिद्धिः
अयं भावः – यथेदमिति तत्कालसत्ता गृह्यते तथा तदिदमिति
कालद्वयसत्त्वमपि प्रत्यक्षेणैव गृहीतं । एवं सति न्यूनाधिक-
विषयतामात्रमिह प्रत्यक्षयोः न विरुद्ध विषयत्वं अन्यथाऽतिप्र-
सङ्गादिति । अल्पविषयस्य प्राबल्यमालम्भविधौ दृष्टमिति चेन्न ;
विरोधे सत्येव बलाबलविमर्शात् । इह तु विरोध एव न समस्ति ।
अपिच प्रत्यक्षं किं वर्तमानत्वेन स्वविषयं गृह्णाति उत वस्तुवृत्त्या
वर्तमानम् ? नाद्यः ; त्वन्मते प्रत्यक्षतयाऽभिमतस्य निर्विकल्प-
आनन्ददायिनी
विरोधिविषयत्वाद्वाधकत्वं उत न्यूनविषयत्वाद्वा ? इति विकल्पमभि-
प्रेत्य आद्ये आह-यथेदमिति । द्वितीय आह- अन्यथेति । विरोधि-
विषयत्वाभावेऽपि न्यूनाधिकविषयतामात्रेण वाध्यबाधकभावे घटप्रत्यक्षात्
घटपटसमूहालम्बनबाधप्रसङ्गादित्यर्थः । विरोधे सत्येवेति — यद्यपि न
हिंस्यादग्नीषोमीयवाक्ययोर्वैयर्थ्यपरिहारायान्यतरसंकोचे (कोच रूपबाधे)
कर्तव्ये सामान्यस्य(अधिकविषयस्य) संकोचो युक्तः । उभयसाफल्यसिद्धेः;
रजतभ्रमस्य न्यूनविषयस्याप्यधिकविषयशुक्तित्वनीलपृष्ठत्वरजतत्वाभावा-
द्यनेकविषयेणापि बाधदर्शनात् बाध्यबाधकभावे न न्यूनाधिकविषयत्वादि
प्रयोजकं; तथाऽपि तदभ्युपगम्यैतदु (प्रौढवादेनो) क्तमिति द्रष्टव्यं । किञ्च
वर्तमानविषयकतया क्षणिकत्वप्रत्यभिज्ञाबाधश्च त्वन्मतानुसारेण ? उत
अस्मन्मतानुसारेण इति विकल्पाभिप्रायेणाह - अपिचेति । यद्वा वर्तमान-
ज्ञानस्य (भूतादिविषय) प्रत्यभिज्ञाबाधकत्वं वर्तमानत्वरूपविरुद्धधर्मविषय-
त्वेन उत स्वरूपविषयत्वेन ? इति विकल्प्य दूषयति — अपिचेति ।
अद्येऽपि किं निर्विकल्पकं सविकल्पकं वा ? इति विकल्पमभिप्रेत्य आद्यं
दूषयति-
- त्वन्मते इति । प्रत्यक्षतयाऽभिमतस्य प्रमाणतयाऽभिमतस्य ।
।