This page has not been fully proofread.

360
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
तत्वमुक्ताकलापः
 
इति न सत्तावदित्यप्रतीतेः । तत्कालासत्त्वमेव
ह्यपनयति सतो वर्तमानत्वबोधः कालेऽन्यत्रापि
सत्त्वं प्रमितमिति कथं तद्विरोधप्रसङ्गः ? ॥ २७ ॥
सर्वार्थसिद्धिः
 
लान्तरस्थभेदसंवृत्या तस्मिन्निदन्त्वं अस्मिन् वा तत्त्वमारोप्य
कल्पितैक्यविषयेति । अत्र प्रत्यक्षवृत्तान्तानभिज्ञेोक्तिरियमित्यभि-
प्रायेण वक्ति-न सदिति । प्रत्यक्षस्य कालान्तरसम्बन्धप्रतिक्षे-
पकत्वाभावमाह — तावदिति । वर्तमानत्वविधिरेवावर्तमानत्वनि-
षेधात्मा तावन्मात्र कालवर्तित्वं नियच्छेदित्यत्राह — तत्कालेति ।
तत्कालसच्चविधिर्हि तदानीमसत्तां निरुन्ध्यात् न तु कालान्तर-
सत्तामित्यर्थः । तथाऽपीदङ्कारवता प्रत्यक्षेण कालान्तरसत्त्वस्या-
नालम्बनात् तत्प्रतिक्षेप इति चेत्; तत्राह — कालेऽन्यत्रापीति
आनन्ददायिनी
 
तथेदंवस्तुनि तस्मिन् वा स्मृत्युपनीते भेदज्ञानप्रतिबन्धक दोषेणाभेद-
धीरित्यर्थः । प्रत्यक्षवृत्तान्तानभिज्ञतां दर्शयतीत्याह — प्रत्यक्षेति ।
अवर्तमानत्वनिषेधात्मा--- कालान्तरसत्त्वनिषेधात्मा । तत्कालेति --
वर्तमानकालसंबन्धो न कालान्तरसंबन्धाभाव इति भावः । तथा च
सोऽपि तत्काले असंबन्धं निरुन्ध्यात् न तु तस्य कालान्तरसंबन्ध-
मन्यकाले निरुन्ध्यादित्यर्थः । तथाऽपीति - साधकाभावादिति भावः ।
ननु प्रत्यभिज्ञायाः प्रामाण्यसंदेहात् अन्यस्य च साधकस्याभावात् कथं
प्रमितत्वामित्यत्राह-अयं भाव इति । इदमिति वर्तमानत्वात्प्रत्यक्षत्व-
बाधात् प्रत्यभिज्ञाया अप्रामाण्यं वाच्यं । तत्रेदमिति प्रत्यक्षस्य