This page has not been fully proofread.

सरः] परोक्तबाधकपरिहारः, प्रत्यक्षेण प्रत्यभिज्ञायाबाधितविषयकत्वशङ्का च 359
 
विरोधौ ॥ २६ ॥
 
तत्वमुक्ताकलापः
 
प्रत्यक्षं वर्तमानं प्रथयति यदिहावर्तमानाद्विभक्तं
तस्मात्तेनैव सर्वं क्षणिकं;
 
सर्वार्थसिद्धिः
 
अथ प्रत्यक्षेणैव प्रत्यभिज्ञाप्रत्यक्ष (स्य) विरोधं भावानां
क्षणिकत्वसिद्धिं च शङ्कते — प्रत्यक्षमिति । अस्मदादिप्रत्यक्षं
तावद्वर्तमानमात्रविषयमिति सर्वसंमतं । अन्यथा दृश्यमानानां
पदार्थानां तत्क्षणापेक्षया पूर्वापरविशेषाणामपि प्रत्यक्षत्वप्रस-
ङ्गात् । तस्मात् अगृहीतपूर्वापरविशेषं वर्तमानग्राहि प्रत्यक्षमवर्त -
मानाद्व्यावृत्तमेव स्वविषयं गृह्णाति । एतदेव च क्षणिकत्वं
वस्तूनां यदपूर्वोत्तरत्वं । अतस्संस्कारनिरपेक्षप्रत्यक्षबाधिता
प्रत्यभिज्ञा देशान्तरस्थग्राहिशुक्तिरूप्यधीवत् संस्कारोपनीतका-
आनन्ददायिनी
 
पूर्वापर-
 
पूर्वसंगतिमभिप्रेत्याह- अथेति । प्रत्यभिज्ञाप्रत्यक्षविरोधं-
प्रत्यभिज्ञा(या)बाधमित्यर्थः । पूर्वापरेति — तत्क्षणापेक्षया
कालिकरूपादि(कत्वादिरूप) विशेषाणामित्यर्थः । अवर्तमानाद्व्यावृत्तं वर्त-
मानाभिन्नं । एतदेव चेति– एतत्क्षणकालवर्तिनः पूर्वापरक्षणवर्तिभिन्नत्वे
तत्क्षणमात्रावृत्तित्वमि(त्तित्वंवे) त्यर्थः । अपूर्वोत्तरत्वं - पूर्वोत्तरकालावर्तित्वं
तत्क्षणमात्रवृत्तित्वमिति यावत् । संस्कारनिरपेक्षेति --संस्कारसापेक्ष-
प्रत्यभिज्ञातो बलवदिदन्त्वमात्रग्राहि प्रत्यक्षमित्यर्थः । ननु भिन्नत्वे
पूर्वापरयोः कथं वर्तमानाद्भेदधीरित्यत्राह – देशान्तरस्थेति । यथ
देशान्तरस्थस्मृत्युपनीतरूपतद्भे (रजतभे) दसंवृत्या शुक्तौ तदैक्यधीः