This page has not been fully proofread.

358सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
तत्वमुक्ताकलापः
 
[जडद्रव्य
 
काले कालानपेक्षे कथमपि सुबचौ नानवस्था-
सर्वार्थसिद्धिः
 
विरोधानवस्थयोरशङ्कापि नास्तीत्याह - काले इति । न ह्यय-
मपि काल एतस्मिन् काले किमुत कालान्तरं ! तत्कालोऽपि न
तस्मिन् काले ; किमुतायं ? अत एतत्कालतत्कालौ वा काला-
न्तरं वा अनपेक्ष्य एकस्मिन् वस्तुनि कालद्वयं संबध्यते इति
स्थिते कथञ्चिदप्यनवस्थाविरोधयोर्नावकाशः । तथाऽपि काल-
द्वयं परस्पराभावनान्तरीयकं तदात्मकं वा कथमेकत्र स्यादिति
चेन्न; कालद्वयस्यान्योन्यस्मिन्नभावेऽपि तदुभयसंवन्धिनि वस्तु-
न्यभावाभावात् । यस्तु तस्मिन् वस्तुन्यसंबद्धः कालः तस्य
तत्र सद्भावं न ब्रूमः । न हि वयं नित्यानित्यविभागं निरा-
कुर्मः ! ॥ २६ ॥
 
आनन्ददायिनी
 
-
 
साधनामित्यर्थः । एतस्मिन्निति । न वर्तत इति शेषः । किमुतेति-
अयमेव काल एतस्मिन् न वर्तते चेत् भूतकालादौ तद्वृत्तिताशङ्का
दूरे इत्यर्थः । परस्पराभावनान्तरीयकमिति — परस्पराभावव्याप्तमित्यर्थः ।
कालद्वयस्येति परस्पराभावनान्तरीयकत्वे परस्पराभावरूपत्वेऽपि वा
कालिकविरोधितया नैकस्मिन् काले तद्वयं सम्बध्नाति । एकस्मिन्
वस्तुनि सम्बन्धे न विरोध इत्यर्थः । नन्वेवं सति सर्वकालानां
वस्तुसम्बन्धे विरोधाभावात् सर्वं वस्तु सर्वकालसम्बन्धीति सर्वं नित्यं
स्यात् । तथा च नित्यानित्यविभागो न स्यादित्यत्राह — यस्त्विति
न हि वयं तत्रासम्बद्धकालसम्बन्धमपि ब्रूमः ! येन नित्यानित्यविभाग
निराकुर्म इत्यर्थः ॥ २६ ॥