This page has not been fully proofread.

सरः] तत्त्वेदन्त्वयोर्विरोधपरिहारः अन्यथा अनिष्टापत्तिः परहेत्वसिद्धिनिगमनंच 357
 
तत्वमुक्ताकलापः
 
स्वेन चात्रैककाल्यात्
 
5
 
सर्वार्थसिद्धिः
 
तत एव कालद्वयमप्येकस्य विरुद्धमिति तत्राह — स्वेनेति ।
पूर्वापरकालयोगो हि विरुद्धः । स्वेनोपाधिनाञ्वच्छिन्नस्यैकस्य
कालस्यावान्तरोपाधिभिर्नानात्वेऽपि तत्तदुपाधीनामेव तत्तदवा-
न्तरकालद्व्यान्वयविरोधः । अन्यापेक्षया पूर्वापरकालयोरन्यस्य
विरुद्धत्वे क्षणकालस्याप्यन्यापेक्षया पौर्वापर्यात्तत्कालवर्तित्वमपि
वस्तुनो विरुध्येत । क्षणकालसंबन्धो वस्तुनः काल्पनिक
इति चेत्; ततोऽपि माध्यमिकोत्थानम् । ननु स्वरूप-
सत्यता क्षणसंबन्धित्वं च साध्यते न केवलं क्षणकालमात्र -
संबन्धित्वं । अतस्तुर्यबौद्धात्त्याणां विशेष इति ; तर्हि सिद्ध-
साधनं । अतः क्षणिकपक्षे स्थिरपक्षे वा स्वाभावकाले वृत्ति-
र्विरोधाद्वारणीया न तु स्वकालवृत्तिरिति भावः । अत्र च
 
आनन्ददायिनी
 
तत एवेति—–तत्तेदन्तयोर्विरोधात्तद्धटकी भूतकालद्वयमप्येकस्य विरुद्धमित्य-
र्थः। क्षणकालस्येति–अविशेषादिति भावः । ततोऽपीति-क्षणकालसम्बन्धा-
भावे कालासम्बन्धिनो वस्तुनः कदाऽप्यभावाच्च शशशृङ्गवदिति भावः ।
स्वरूपसत्यतेति–स्वरूपसत्यत्वसाधनात्तत्क्षणसम्बन्धस्य काल्पनिकत्वेऽपि
तुर्याद्भेद इति भावः । स्वरूपसत्यत्वस्य सिद्धत्वात् क्षणमात्रसम्बन्धस्य
(काल्पनिकत्वे वस्तुतः) मिथ्यात्वाच्च क्षणिकत्वाभा (वात्) वेन सिद्ध-