This page has not been fully proofread.

356सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
सर्वार्थसिद्धिः
 
मानत्वं वर्तमानस्य वा अतीतत्वमिह न प्रवर्तनीयं । ननु तत्त्वे-
दन्त्वे तावत् विरुद्धे; अन्यथा यौगपद्ये विरोधाभावप्रसङ्गात् ।
 
आनन्ददायिनी
 
नभ्युपगमाद्वा ? उभयथाऽपि पुञ्जबुद्धिर्न स्यात् ।
 
नामेकदेश सम्बन्धः पुञ्ज इति भावः ।
नामेकदेशसम्बन्धः
 
नानादेशस्था-
 
न प्रवर्तनीयं -- न प्रस-
 
ञ्जनीयं । अन्यथेति–विरुद्धयो रूपरसयोर्यौगपद्यदर्शनादिति भावः ।
 
भावप्रकाशः
 
कथमसौ स्फटिको वराकः कालभेदेनाभेदसाधनाय दृष्टान्तीभवितु-
मर्हति ? नचैवं समानकालकार्याणां देशभेदेऽपि धर्मिभेदो युक्तः ;
भेदसाधकप्रमाणाभावादिन्द्रियप्रत्यक्षेण निरस्तविभ्रमाशङ्केनाभेदप्रसाध-
नाच्च इति न कालभेदेऽपि शक्तयशक्तयोर्विरोधः खसमय-
मात्रादपहस्तयितं शक्यः' इति यदुक्तं तदलग्नकमिति बोधितम् ।
तत्कालकार्यकारित्वं कालान्तरे तत्कार्याकारित्वेन न विरुध्यते प्रसङ्ग-
तद्विपर्यययोर्धर्मिभेदसाधकत्वाभावस्योपपादितत्वात् । यद्येवं नाङ्गीक्रियते
एकस्यार्थक्षणस्य पुरुषभेदेन विज्ञानजननतद्विरहयोरविवादतया पूर्वोक्त-
प्रसङ्गतद्विपर्ययाभ्यां देशभेदेन क्षणभेदावश्यम्भावेन एकोऽपि क्षणो न
स्यात् । अभेदस्य स्वलक्षणव्यतिरिक्तत्वे कथमिन्द्रियप्रत्यक्षं तत्साधयति ?
स्वलक्षणरूपत्वे तु प्रत्यभिज्ञाप्रत्यक्षेण पूर्वापरकालिकाभेदस्य कथमसिद्धिः
अभिलापसंसर्गेणेति चेत्; तार्ह मूकतैव ज्यायसी । योगिज्ञाने
योगाभ्यासबलसहकृतं मन इव प्रत्यभिज्ञायामपि संस्कारसहकृत-
मिन्द्रियमेव करणमिति 'निष्पादितक्रिये चार्थे' इत्यादितत्वसंग्रहोक्त-
दूषणस्यापि नावकाश इति भावः । ' प्रमातृप्रमेययोः क्षणिकत्वं वदद्भि-
र्व्याप्त्यवधारणतत्स्मरणपूर्वकानुमानाभ्युपगमोऽपि दुश्शकः' इति भाष्य-