2025-01-21 07:37:54 by ambuda-bot
This page has not been fully proofread.
सरः] एकस्मिन्कालद्वयायोगेदेशप्रतिबन्द्याऽनिष्टापादनं कालिकविरोधैव्यवस्थाच 355
तत्वमुक्ताकलापः
स्वस्य स्वाभावकाले विहतिनियमनातू
सर्वार्थसिद्धिः
तर्हि कालद्वयविरोधः कुत्रेत्यत्राह – स्वस्येति । नियमनात्-
'*यथाप्रमाणं व्यवस्थापनादित्यर्थः । अत एवातीतस्य वर्त-
भावप्रकाशः
सूक्तिरनुसन्धेया '* यथाप्रमाणमिति - एतेन रत्नकीर्तिना ' न हि वयं परि-
भाषामात्रादेकत्र कार्ये देशभेदादविरुद्धे शक्तयशक्ती ब्रूमः ! किंतु विरो-
धाभावात् । तद्देशकार्यकारित्वं हि तद्देशकार्याकारित्वेन विरुद्धं ; न पुन-
देशान्तरे तत्कार्याकारित्वेन अन्यकार्यकारित्वेन वा । यद्येवं तत्काल -
कार्यकारित्वं तत्कालकार्याकारित्वेन विरुद्धं न पुनः कालान्तरे
तत्कार्याकारित्वेन अन्यकार्यकारित्वेन वा । तत्कथं कालभेदेऽपि
विरोधः इति चेत् ; उच्यते — द्वयोर्हि धर्मयेोरेकत्र धर्मिण्यनव-
स्थितिनियमः परस्परपरिहारस्थितिलक्षणो विरोधः । स च साक्षात्परस्पर-
प्रत्यनीकतया भावाभाववद्वा भवेत् । एकस्य वा नियमेन प्रमाणा-
न्तरेण बाधनान्नित्यत्वसत्त्ववद्वा भवेदिति न कश्चिदर्थभेदः । तद-
त्रैकधर्मिणि तत्काल कार्यकारित्वाधारे कालान्तरे तत्कार्याकारित्वस्य अन्य-
कार्यकारित्वस्य वा नियमेन प्रमाणान्तरेण बाधनाद्विरोधः ; तथाहि-
यत्रैव धर्मिणि तत्कालकार्यकारित्वमुपलब्धं न तत्रैव कालान्तरे
तत्कार्याकारित्वं अन्यकार्यकारित्वं वा ब्रह्मणाऽप्युपसंहर्तुं शक्यते
येनानयोरविरोधस्स्यात् । क्षणान्तरे कथितप्रसङ्गविपर्ययहेतुभ्यामवश्यं-
भावेन धर्मिभेदप्रसाधनात् । नच प्रत्यभिज्ञानादेकत्वसिद्धिः ; तत्पौ-
रुपस्य निर्मूलितत्वात् । अत एव वज्रोऽपि पक्षकुक्षौ निक्षिप्तः ।
23%