2025-01-21 07:37:52 by ambuda-bot
This page has not been fully proofread.
354
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
1 एकस्य भिन्नकालाभ्यां वैशिष्ट्यं विहतं यदि ।
तथा स्यात् भिन्नदेशाभ्यां पुअबुद्धिस्ततो न ते ।
आनन्ददायिनी
[जडद्रव्य
तथा स्यादिति—–नन्वस्माभिर्देशय सम्बन्धानङ्गीकारान्न प्रतिबन्दिरित्यु-
क्तमिति चेत् ; किं तदा देशानभ्युपगमात् ? तत्सत्वेऽपि तत्सम्बन्धा-
भावप्रकाशः
भ्रमसंशयौ नैव निवर्तेते । अतस्तन्निवृत्तये तदेतत्कालसंवन्धावगाहिनी
प्रत्यभिज्ञा प्रमितिरित्यङ्गीकरणीयम् । क्षणिकत्वानुमितिः प्रत्यक्षगृहति-
धर्म्यवगाहिन्यपि प्रवृत्तसमारोपव्यवच्छेदकतया यथा पञ्चिकायां प्रमेत्य-
ङ्गीकृतं तद्वत् स्मृतेऽस्तु पूर्व प्रत्यक्षानिवर्त्यभ्रमसंशयानिवर्तकतया न प्रमा-
त्वापादनसभंव इति ॥
1
हेतुरसिद्ध इत्याह * एकस्येत्यादि । अत्र ' परस्परविरुद्ध-
पूर्वापरकालसबन्ध एवैकस्य कथमिति चेन्न ; स्वापेक्षया पूर्वापरत्वस्या-
सिद्धेः । न हि स्वप्रागभावप्रध्वंसावच्छिन्न कालसंबन्धित्वं वस्तुनो ब्रूमः !
अन्यापेक्षया पूर्वापरयोरपि कालयोरेतदपेक्षया स्वकालत्वे विरोधाभावः
क्षणेऽपि स्वीकार्यः । यथा परमाणुद्वयापेक्षया पूर्वापरीभूतस्यापि
तन्मध्यदेशस्य परमाण्वन्तरं प्रति स्वदेशतया न तस्य तत्संबन्धविरोधः ।
अन्यथा क्षणोऽपि पूर्ववत् क्षुण्णः । तथाऽपि पूर्वपरकालयोः तदुपाध्योर्वा
विरुद्धयोस्तेजस्तमसोरिख कथमेकत्र समावेशः ? अविरोधे तु यौगपद्य-
प्रसङ्ग इति चेन्न ; यौगपद्ये हि तयोर्विरोधः न त्वेकवस्तुसंबन्धे !
अन्यथा एकज्ञानसंबन्धेऽपि विरोधप्रसङ्गेन प्रत्यभिज्ञास्वरूपस्यानुत्पत्ति-
प्रसङ्गात् । यदि पुनः कालयोस्स्वरूपभेदेन तादात्म्यविरोधो विवक्षितः
तर्हि रूपरसयोरिव 'नैकवस्तुसंबन्धं प्रतिभन्त्स्यति' इति न्यायसिद्धाञ्जन-