2025-01-21 07:37:52 by ambuda-bot
This page has not been fully proofread.
352
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापै
[जडद्रव्य
तत्वमुक्ताकलापः
कालद्वैतेऽनवस्थादि
सर्वार्थसिद्धिः
संबन्धस्तत्त्वं । वर्तमानकालसंबन्ध इदन्त्वं । न ह्यतीतं वर्तत
इति सम्भवति ! सर्वेषां नित्यत्वप्रसङ्गात् । वर्तमानं च यद्यतीतं
कथमस्मदादिप्रत्यक्षेण गृह्येत । किंच कालद्वयान्वयरूपयोः तत्त्वे-
दन्त्वयोरेकवस्तुसम्बन्धः एकस्मिन् काले भिन्ने वा ? पूर्वत्र
विरोधः । तस्मिन् एतस्मिन् तदुभयपूर्वापरे वा क्वचिदपि काले
कालान्तरसम्भेदायोगात् । अन्यथा त्रैकाल्ययौगपद्यप्रसङ्गात् ।
एतेन विरुद्धानुपहितविषयेति विशेषणं चासिद्धं । उत्तरत्र काल-
द्वयनिर्वाहककालभेदाश्रयणे तयोरपि तथेत्यनवस्थापातः । न
चैवं दृष्टमिष्टं वा ! न च देशव्यप्रतिवन्दि: ! अस्माभिस्तदन-
भ्युपगमात् । तस्मात्कालद्वयविशिष्टे वस्तुनि प्रवृत्ता कृत्स्ना
आनन्ददायिनी
-
पूर्वशेषत्वान्न पृथक्संगतिरिति भावः । वर्तमानं चेति – वर्तमा-
नस्य तत्ताश्रय (यातीतादि) भिन्नत्वेन संप्रतिपन्नवदिन्द्रियसम्बन्धा-
भावादिति भावः । तस्मिन् — अतीतकाले । एतस्मिन् वर्तमानकाले ।
तदुभयपूर्वापरे – अतीतवर्तमानकालात्पूर्वापरयोरित्यर्थः । पूर्वश्चापरश्च-
पूर्वापरं ; एकवद्भावः । क्वचिदपि काले तदन्यकालसम्बन्धस्यासम्भवा-
दिति भावः । त्रैकाल्येति — भूतभविष्यद्वर्तमान कालानामित्यर्थः । समा-
हारद्विगोः स्वार्थे ष्यञ् त्रैलोक्यमितिवत् । उत्तरत्रेति -- भिन्नकाले वेति
द्वितयपक्षे । तयोरपि —– निर्वाहककालयोरपि कालभेदमादाय सम्बन्ध-