This page has not been fully proofread.

सरः] कालभेदेन विरुद्धस्वीकारेऽपि नाव्यवस्था, अन्यथा एकानेकाद्यसिद्धिः 351
 
तत्वमुक्ताकलापः
 
तत्त्वदन्त्वे हि कालान्तरघटनमये नैककाले घटेतां
 
सर्वार्थसिद्धिः
 
सिध्येत् । तदभावे च कुतोऽनेकमिति माध्यमिकमतापातः ।
सैव सुगतमत काष्ठेति तत्र तिष्ठाम इति चेत् ; तन्निष्ठेन त्वया
अस्मन्मतबाधकानुपन्यासे विवादाभावः । तदुपन्यासे तु तत्रतत्र
तद्वाधाबाधविकल्पदौस्थ्यं दुष्परिहरमिति भावः ॥ २५ ॥
 
पुनरपि प्रकारान्तरेण प्रत्यभिज्ञाबाधकं विरुद्धधर्माध्यासं
प्रतिबन्दिविशेषमप्याशङ्कते – तत्त्वेदत्वे हीति । अतीतकाल -
आनन्ददायिनी
 
जन्यत्वाजन्यत्वादिप्रकारेण । तदभावे इति – तथाच वस्तुनः पार-
मार्थिकत्वे तस्यैव किञ्चित्प्रति कुर्वत्त्वं किञ्चित्प्रत्यकुर्वत्त्वमित्यादि-
विरुद्धधर्माध्यासस्यावश्यकत्वात् तादृशस्यासम्भवात् ॥
 
कुर्वतोऽकुर्वतो नैक्यं सतश्चाप्यसतस्तथा ।
 
अजन्यस्य च जन्यस्य तथाभातमतो मृषा ॥
 
इति माध्यमिकमतापात इत्यर्थः । सैवेति — माध्यमिकमतमेवेत्यर्थः।
शैत्यं हीत्यादिवत् स्त्रीत्वं । तदुपन्यास इति – बाधकोपन्यासे उपन्यस्तं
प्रमाणं बाधितं न वा ? आद्ये अस्मन्मतबाधो न स्यात् । द्वितीये
बाधस्या बाधितत्वान्माध्यमिकमतं न स्यादिति माध्यमिकमनस्य दुस्थ-
त्वादित्यर्थः ॥ २५ ॥
 
ननु पूर्वमेव प्रत्यभिज्ञायां विरुद्धधर्माध्यासदोषमाशङ्कय परिहृत-
त्वात् उत्तरपद्ये पुनस्तदेवोच्यत इति पौनरुक्तयमित्यत आह- पुनरपीति ।