This page has not been fully proofread.

350
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
तेन नैकं क्वचित्स्यात्
 
सवार्थसिद्धिः
 
विरोधः परिहियते ! कचिच्छक्तं कचिदशक्तं केनचिज्जन्यते
व्यज्यते वाध्यते वा नान्येन । कस्यचित्प्रतियोगी व्याप्यः
व्यापकः पूर्वः परो वा नान्यस्येत्यादि । एवं विषयभेदादपि
विरोधस्ते दुष्परिहरः । ततः किमित्यत्राह — तेनेति । विरुद्धानां
देशकालाद्यसमाहितविरोधत्वेन स्वलक्षणस्यापि विरुद्धशतक्षुण्ण-
तया नानात्वे तत्क्षोदानां च तथातथा क्षोदे किञ्चिदप्येकं न
आनन्ददायिनी
 
दर्शयति—क्वचिच्छक्तमिति । दण्डो घटे शक्तः पटोत्पादने शक्तय-
भाववान् घटः क्वचिदधिकरणे जायते क्वचिद्व्यज्यते क्वचिद्वाध्यते ;
एवं केनचिज्जन्यते व्यज्यते वाध्यते च नान्येन ; तथा कस्य-
चित्प्रतियोगी कस्यचिद्व्याप्यः कस्यचिद्व्यापकः इति शक्तत्वाशक्त-
त्वादीनामविरोध इत्यर्थः । आदिशब्देन कुत्रचित्संयोगतदभावादीनां
ग्रहः । परः पूर्व इत्यादौ कस्यचिदित्यस्य तस्मादिति विभक्ति-
विपरिणामेन कस्माच्चिदित्यन्वयः । केचित्तु - अन्यारादितरर्ते' इत्या-
दिना दिक्छब्दयोगे पञ्चम्याः ' तस्य परमाम्रडितम्' इति निर्देशेन
अनित्यत्वज्ञापनात् कस्यचिदित्यनुषङ्गः ! भवत्पक्षे भिन्नविषयकत्वादिभिरपि
विरोधपरिहारो न सम्भवति भिन्नविषयकत्वादेरपि विरुद्धत्वादित्याह -
एवमिति । विषयभेदो भिन्नविषयत्वं । आदिशब्देन करणभेदादि-
संग्रह: । तत्क्षोदानां क्षणिकस्वलक्षणाद्भिन्नानां भागानां । तथातथा--
 
6