2025-01-21 07:37:51 by ambuda-bot
This page has not been fully proofread.
सरः] सहकारिसंपत्तेः न शक्तयधीनत्वं । सहकारिसंबन्धस्य भेदकत्वशङ्का च 349
तत्वमुक्ताकलापः
एकस्मिन् कालभेदाद्भवति च सहकार्यन्वयानन्व-
यादिः नो चेन्नो देशभेदापि सुपरिहरः
सर्वार्थसिद्धिः
द्धत्वाद्भेदकमित्यत्राह – एकस्मिन्निति । आदिशब्देन प्रस्तुत-
करणाकरणादिसंग्रहः । कालभेदाद्विरुद्धस्वीकारे किं कुत्र नासी-
न स्याद्वा ? इति सर्वत्राव्यवस्थितिरिति चेन्न ; दर्शनादर्शन-
नियमाभ्यामेव सम्भवासम्भवस्थितेः । एवमनभ्युपगममनुवदन्
प्रतिवन्दिमाह– नोचेदिति । अत्रास्ति करोति च अन्यत्र नास्ति
न करोति चेत्यादिनिर्देशभेदेन सच्चासच्चादिसमुच्चयस्सुदुष्परिहर-
स्स्यात् । अपिर्विषयभेदाद्यनुक्तसमुच्चये । विषयादिभेदादपि हि
आनन्ददायिनी
णाकरणादीत्यादिशब्देन शक्तयशक्तयादिकं गृह्यते । अव्यवस्थिति-
रिति — कालभेदेन सर्वं सर्वत्र स्यात् विरोधाभावादिति भावः ।
तथाच असाधारणधर्मव्यवस्था न सिध्येदिति ध्येयम् । सम्भवासम्भवौ -
इदमत्रासीदिदमत्र भविष्यति इदमत्र नासीदिदमत्र न भविष्यतीति
सद्भावासद्भावौ । यदि करणाकरणादीनां कालभेदेन समुच्चयेऽप्य-
व्यवस्थादोषः तदा क्षणेऽपि देशभेदेन सत्त्वासत्त्वकरणाकरणादि-
समुच्चयस्य दुष्परिहरत्वात् स दोषस्तवाऽपि स्यादित्याह---अत्रास्ति
करोति चेति । विषयादिभेदादपीति — शक्तयशक्तयादीनां विषयादि-
भेदादपि विरोधाभावेन तत्प्रयुक्तो भेदः परिह्रियते इत्यर्थः । तदेव