This page has not been fully proofread.

348
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
विरोधात् । अर्थजत्वं च प्रामाण्यं ब्रूपे । उपच्छन्दनार्थमुत्ता-
नवाक्यमिति चेन्न ; अतिप्रसक्तया सिद्धान्तसिद्धेर्दुर्निरूपत्वप्रस-
ङ्गात् । शक्तं चेत् अन्त्यतन्तु संयोगादिवदवश्यसिद्ध सहकारिचक्रं
स्वकार्यं कुर्यादिति चेन्न ; स्वकारणादापततां सहकारिणामेत-
दधीनत्वाभावात् । पराधीनत्वेऽप्यवर्जनीयं तत्सन्निधानमिति
चेन्न; अन्यथाऽपि दृष्टेः । अस्तु सहकारिसम्बन्धादिकमेव विरु-
 
आनन्ददायिनी
 
ज्ञानं
 
साधारण्याद्रू (ण्ये रू) पादिविशेषनियमनादिन्द्रियस्याधिपतित्वं । निया-
मकस्याधिपतित्वात् । सहकारी — आलोकादिः । ततो जातस्य
ज्ञानस्य स्पष्टता भवति । समनन्तरप्रत्ययः – संस्कारः । तस्मात्
प्राचीनज्ञानोद्बोधः । आलम्बनप्रत्ययः -- नीलानीलाद्यर्थाकारः प्रत्ययः ।
ज्ञानपदवेदनीयस्य चित्तस्य समनन्तरप्रत्ययसहितादधिपत्यादिविषय-
नियामकस्पष्टताप्रयोज (जन) कसहितान्नीलाकारज्ञानाच्चित्ताख्यं
नीलोऽहमित्याद्या कारसन्ततिं भजत इति चत्वारः प्रत्ययाः' इति बोधि-
चित्तविवरणे दर्शनादित्यर्थः । प्रामाण्यमिति – प्रामाण्यप्रयोजकामित्यर्थः ।
उपच्छन्दनं—वञ्चनं । उत्तानं — अहृदयं । अतिप्रसक्तयेति — त्वदु-
क्ताविदमुपच्छन्दनार्थमुत्तानं इदं नेति निर्णयनियामकाभावात्सन्देहादयं
सिद्धान्त इति व्यवस्था न स्यादित्यर्थः । ननु शक्तस्य सहकारि-
सम्पत्तिनियमात् अन्त्यतन्तुसंयोगादिवत् स्वकार्यका (क)रणं न स्यादिति
शङ्कामनूद्य. सहकारिसंपत्तेश्शक्तयधीनत्वाभावेन तथा नियम एव
नास्तीति परिहरति — शक्तं चेदिति । अन्यथाऽपि —— सहकारिसान्नि-
ध्याभाववत्तयापीत्यर्थः । दर्शनानुसारेण व्याप्तिर्वाच्येति भावः । कर-
 
-