This page has not been fully proofread.

सरः ]
 
स्वभावत्वानुपपत्तिपरिहारः तत्र परसम्मतिश्च
 
347
 
सर्वार्थासिद्धिः
 
इति चेन्न ; स्वहेतुसापेक्षत्ववदुपपत्तेः । 'अधिपतिसहकार्यालम्बन-
समनन्तरप्रत्ययाश्चत्वारो विज्ञानोत्पत्तौ कारणमिति युष्मदुक्ति-
आनन्ददायिनी
 
स्वहेत्विति —— कुर्वत्स्वभाव (स्व) लक्षणस्यापि स्वहेतुपरसापेक्षतया स्वभाव-
त्वाभावप्रसङ्गादिति भावः I ननु क्षणानां हेतुसापेक्षत्वमेव
नास्तीत्यत आह- अधिपतीति — अधिपतिरिन्द्रियं चक्षुरादि । प्रती -
यते अनेनेति प्रत्ययः कारणं । उदितस्य ज्ञानस्य रसादि-
 
--
 
भावप्रकाशः
 
नन्तपदार्थानां चक्षुषी निर्माल्य कल्पनं स्यादिति । एवमनङ्गीकारे-
चतुर्भिश्चित्तचैत्ता हि समापत्तिद्वयं त्रिभिः ।
 
द्वाभ्यामन्ये तु जायन्ते
 

 
इति भवदीयवचनविरोध इत्यभिप्रेत्य तत्र चतुर्भिरिति सामान्येनोक्तया
चत्वारः प्रत्यया हेतुरालम्बनमनन्तरम् ।
 
तथैवाधिपतेयं च
 
13
 
इति तदर्थपरिज्ञानाय भाष्योक्तवाक्यमादत्ते - * ' अधिपतीत्यादि । ननु
अधिपत्यादीनां चतुर्णां तन्मते पूर्वं (५७ पृ) भिन्नधर्मप्रयोजकत्वाभिधा-
नेन नानुपपत्तिरिति चेन्न ; तन्मते धर्मधर्मिणोरभेदेन विज्ञानक्षणगतधर्माणां
विज्ञानाभिन्नतया दोषो दुर्वारः, तथाहि – एकस्य अधिपत्यादिचतु-
टयसन्निधानेन ज्ञानोत्पत्तिकाले तद्विकलस्यान्यस्यालम्बनादिमात्रेण ज्ञानं
नोदेतीत्यविवादं । एवं च आलम्बनप्रत्ययश्शक्तश्चेत् विज्ञानं तस्यापि
जनयेत् ; न च तस्य जनयति इति प्रसङ्गतद्विपर्ययाभ्यां विज्ञानक्षण
एको न स्यात् इति मिलितानां कारणत्वाङ्गीकारेण परिहारोऽपि तुल्य
एवेति भावः ॥