This page has not been fully proofread.

346
 
सव्याख्यसर्वार्थसिद्धिसद्द्तितत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
:
 
[जडद्रव्य
 
चाकुर्वत्तया स्वभावव्यवस्थासिद्धेः । परसापेक्षः कथं स्वभावः ?
 
भावप्रकाशः
 
न संभवतीति कुर्वत्त्वं भाविकार्यानुगुणव्यापारवत्त्वमित्यनुपदमेव व्यव-
स्थापयिष्यते । क्षणिकत्वपक्षे येषां क्षणानामेककार्यकारितया उपादान-
बीजक्षणसहकारित्वमुच्यते स्थिरपक्षे तत्क्षणसमुदायरूपाणां वस्तूनामेक-
कार्यकारितयोपादानवीजसहकारित्वमपि संमतं । परं तु यावन्वयव्यति-
रेकावेककार्यकारित्वग्राहकौ तावेव निरुक्तकुर्वत्तामपि प्रयोजयत इति पर-
स्परोपकारित्वमप्यवर्जनीयं । क्षणिकत्वसिद्धेः पूर्वं एकस्मिन् क्षणे निर्वि-
भागतया विशेषाधानस्याशक्यत्वादित्युक्तेरसंभवात् । धर्मधर्मिणोर्भेद-
साधनेन स्वभावस्यागन्तुकत्वेऽपि न धयैक्यक्षतिः । एतद्धर्मकादे-
तद्धर्मकमुपजातम्' इत्यादिना धर्मविशिष्टस्यैवान्वयव्यतिरेकाभ्यां कार-
णता वक्ष्यते । तेन स्वभावस्यैव कारणत्वं स्यान्न धर्मिण इत्यपि
समाहितम् । एतेन ; प्रथमक्षणे न परस्परोपकारित्वं किंतु द्वितीयक्षण-
मारभ्यैव इति ;
 
ततः प्रभृति ये जाताः विशेषास्ते तु तत्कृताः ।
 
तद्रपप्रकृतित्वेन तेषां तद्रूपयोगिनाम् ॥ ४३७ ॥
 
"
 
इत्युक्तिरप्यनादेया । ' कालानन्तर्यसाम्ये ' इति लोकविवरणे क्षणि-
कत्वपक्षे भदन्तयोगसेनोक्तदूषणानि स्थरीकरिष्यन्ते । इति ॥
 
-
 
एतेन रत्नकीर्तिना – 'पूर्वस्थितादेव सामग्रीमध्यप्रविष्टाद्भावा-
त्कार्योत्पत्तिः । अन्यस्मादेव वा विशिष्टाद्भावादुत्पन्नादिति विवादपदं ।
तत्र प्रागपि संभवे सर्वदैव कार्योत्पत्तिः न वा कदाचिदपीति विरोधम-
समाधाय चक्षुषी निर्माल्य तत एव कार्योत्पत्तिदर्शनादिति साध्यानु-
वादमात्रप्रवृत्तः कृपामर्हतीति' यदुक्तं तत् विकल्पाप्रामाण्यकल्पनाभि-
निवेशनिबन्धनमिति सूचितम् । अन्यस्माद्भावादुत्पत्त्यङ्गीकारे क्षणिका-