2025-01-21 07:37:48 by ambuda-bot
This page has not been fully proofread.
सरः] स्वभावद्वयासामानाधिकरण्यशङ्का तत्परिहारः स्वभावत्वानुपपत्तिशङ्काच 345
सर्वार्थसिद्धिः
कथं सहकारिभिरपि कुर्वत्ता ? कुर्वत्स्वभावस्य वा कथं तद्वि-
रहात्तदभावः इति चेन्न ; सहकारिसन्निधौ कुर्वत्तया तदभावे
आनन्ददायिनी
सहकारिसन्निधाविति — दर्शनादित्यर्थः ।
भावप्रकाशः
अन्योन्यानुपकारेऽपि नाविशिष्टा इमे यतः ।
स्वोपादानबलोद्भूताः कलापोत्पादकाः पृथक् ॥ ४३६ ॥
इति । अत्र पञ्चिका—समर्थादेव हि कार्योत्पत्तिः ! न च सहकारि-
वैयर्थ्यं ; तथाहि-द्विविधं सहकारित्वं एकार्थक्रियाकारितया परस्परोप-
कारितया च । तत्र (अ) व्यवहितकार्यापेक्षया एकार्थक्रियाकारित्वमेव
न परस्परोपकारित्वं एकस्मिन् क्षणे निर्विभागतया विशेषस्याधातुमश-
क्यत्वात् । व्यवहितकार्यापेक्षया तु परस्परत उत्तरविशिष्टक्षणोत्पत्तेः ।
सन्तानापेक्षया परस्परोपकारेण व्यवहितकार्यजनकत्वात् परस्परोपकारित्व-
लक्षणं सहकारित्वं । तत्र प्रथमावस्थाभाविनां यद्यपि परस्परतो विशेषो
नास्ति ; तथाऽपि तेषां सहकारित्वमविरुद्धमेव एकार्थक्रियाकारित्वात् ।
नापि ते समनन्तरविशिष्टक्षणोत्पादनं प्रत्यविशिष्टाः ; पूर्वकेभ्य एव
स्वहेतुप्रत्ययेभ्यः तथाविधोत्तरकार्यकलापोत्पादनं प्रति प्रत्येकं समर्था-
नामुत्पन्नत्वात् । तेषामपि हेतुप्रत्ययानामपरेभ्यस्स्वहेतुप्रत्ययेभ्यः तेषा -
भप्यपरेभ्य इति अनादेर्हेतु परम्पराया इष्टत्वादनवस्थाऽप्यदुष्टैव । प्रत्येकं
च सामर्थ्येऽपि नापरेषां वैयर्थ्यं ; स्वहेतुबलेन तेषां तथोत्पन्नत्वात् ।
नापि तेषां पृथग्भावस्संभवति ; तथाविधकारणाभावात् । नापि पश्चात्
क्षणिकत्वात् इति । एवं सति स्थिरत्वपक्षेऽपि नानुपपत्तिरिति भावेनाह-
1 * सहकारिसन्निधावित्यादि । अयमाशयः -- निर्व्यापारस्य कारणत्वं