This page has not been fully proofread.

344
 
सव्याख्यासर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
2
 
[जडद्रव्य
 
'* कदाचित् विकलैौरिति प्रयोजक भेदेनेत्यर्थः । *अकुर्वत्स्वभावस्य
आनन्ददायिनी
 
मपुष्कलसहकारिसान्निध्यं चेत्यर्थः । भेदो — विशेषः ।
 
भावप्रकाशः
 
विरोधौ ; एकेन विरोधेन शीतोष्णस्पर्शयोरेकत्वं वार्यते अन्येन सहाव-
स्थानम्' इति च आह । अतोऽत्रापि न विरोध इति व्यञ्जयति—
* कदाचिद्विकलैरित्यनेन । अत्र धर्मोत्तराचार्येण विरोधस्य वास्तवत्वो-
पपादनेन-
 
द्विविधाः क्षणिका भावाः केचिद्धासस्य कारकाः ।
शीतादेरेव वयाद्या अपरे न तथाविधाः ॥ ४४१ ॥
अदृष्टतत्वो लोकस्तु विरोधमभिमन्यते ।
कार्यकारणभावेऽपि प्रथमोक्तेष्वनेकधा ॥ ४४२ ॥
बाध्यबाधकभावोऽपि वस्तुनो नैव तात्विकः ।
विद्यते तत एवोक्तं विरोधगतिरित्यपि ॥ ४४३ ॥
 
इति तत्वसंग्रहोक्तिरनुचितेति बोधितम् ।
 
अस्त्वेवं किन्तु साकल्ये या तस्य प्रकृतिर्मता ।
वैकल्ये सैव चेदिष्टा नित्यास्म्युस्सहकारिणः ॥ ४११ ॥
तत्संबद्धस्वभावस्य भावे तेषामपि स्थितेः ।
 
अन्यच्चेद्विकलं रूपमेकत्वमवहीयते ॥ ४१२ ॥
 
इति शान्तरक्षितोक्तदूषणमभिप्रेत्य शङ्कते -2*अकुर्वत्स्वभावस्येत्यादि। तत्व-
संग्रहे क्षणिकत्वपक्षे भदन्तयोग सेनोक्तसहकारित्वाद्यनुपपत्तिरित्थं परिहृता-
उच्यते प्रथमावस्था सैवान्योऽन्योपकारिणः ।
 
एकार्थक्रियया त्वेते भवन्ति सहकारिणः ॥ ४३५॥