This page has not been fully proofread.

सरः]
 
विरुद्धधर्माध्यासपरिहारः
 
भावप्रकाशः
 
तथापि तद्वियुक्तोऽयं कारको नान्त्यहेतुवत् ॥
 
निजस्तस्य स्वभावोऽयं तेषामेव हि सन्निधौ ।
कारकत्वमतः कार्यं तद्भावेऽपि न सर्वदा ॥ ४१० ॥
इति तत्वसंग्रहोक्तपक्ष एव सिद्धान्तितः ॥
 
343
 
विरोधपदार्थं न्यायबिन्दौ (२ पृ) धर्मकीर्तिरित्थमाह-' द्विविधो
हि पदार्थानां विरोधः ! अविकलकारणस्य भवतोऽन्यभावः अभावा-
द्विरोधगतिः शीतोष्णस्पर्शवत् । परस्परपरिहारस्थितलक्षणतया वा
भाववत्' इति । अत्र धर्मोत्तराचार्यः - 'यस्य कारणवैकल्यादभावो
न तस्य केनचिदपि विरोधगतिः । तदर्थमविकलकारणग्रहणं अवि-
कलकारणस्यापि यत्कृतात्कारणवैकल्यादभावः तेन विरोधगतिः ।
तथाच सति यो यस्य विरुद्ध. स तस्य किञ्चित्कर एव । तथाहि-
शीतस्पर्शस्य जनको भूत्वा शीतस्पर्शान्तरजननशक्तिं प्रतिबध्नन् शीत-
स्पर्शस्य निवर्तको विरुद्धः । तस्मात् हेतुवैकल्यकारी विरुद्धो जनक
एव' इति । एवं ' ततोऽसमर्थावस्थाजनकत्वमेव निवर्तकत्वं । अतश्च
यस्मिन् क्षणे जनकस्ततस्तृतीये क्षणे निवृत्तो विरुद्धो यदि शीघ्रं
निवर्तते । जन्यजनकभावाच्च सन्तानयोर्विरोघो न क्षणयोः । यद्यपि
च न सन्तानो नाम वस्तु तथाऽपि सन्तानिनो वस्तुभूताः ।
ततोऽयं परमार्थः—न क्षणयोर्विरोधः ; अपि तु बहूनां क्षणानां ; यतः
सत्सु दहनक्षणेषु प्रवृत्ता अपि शीतक्षणा निवृत्तिधर्माणो भवन्तीति '
इति । एवं ' ये त्वाहुः न विरोधो वास्तव इति त इदं वक्तव्याः
यथा न निष्पन्ने कार्ये कश्चिज्जन्यजनकभावो नाम दृष्टोऽस्ति ! कारण-
पूर्विका तु कार्यप्रवृत्तिः । अतो वास्तव एव । तद्वन्न निवृत्ते वस्तुनि
कश्चिदिष्टो नाम विरोधोऽस्ति । दहननिमित्तं तु शीतस्पर्शस्य क्षणान्तरा-
सामर्थ्यं; अतो विरोधोऽपि वास्तव एव इति च । 'भिन्नव्यापारौ
'