This page has not been fully proofread.

342
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
कृतितदितरयोः साह्यभेदेन सिद्धेः ।
 
सर्वार्थसिद्धिः
 
र्ययाभ्यां शक्तयशक्तिसिद्धिरिति चेन्न ; शक्तस्याऽपि करणाकर-
णयोः सहकारिसन्निध्यसन्निधिप्रयुक्तत्वात् । तदाह-कृतितदित-
रयोरिति । साह्यं–*सहभावः कदाचित् पुष्कलैस्सहकारिभिस्साद्यं
आनन्ददायिनी
 
शक्तस्यापीति – करणाकरणयोः शक्तितदभावप्रयुक्तत्वाभावान्न शक्तय-
शक्तिरूपविरुद्धधर्माध्यासप्रसङ्ग इति भावः 1 सहशब्दस्य
धर्म्यवाचकत्वात् तत्र भवप्रत्ययः कथमित्यत्राह – साह्यमिति ।
सहशब्दः सहितपरः ; तस्य भावस्साद्यं । यद्वा त्रैलोक्या-
दिवत् स्वार्थिकः । तदेवाह - कदाचिदिति । पुष्कलसहकारिसान्निध्य-
 
भावप्रकाशः
 
-
 
व्यतिरेकसाधकमन्यत् प्रमाणं वक्तव्यम् !' इति 1 * शक्तस्यापीति - उक्तं
च रत्नकीर्तिना - ' शक्तोऽपि घटः क्रमि सहकार्यपेक्षया क्रमिकार्यं करि-
ष्यति । न चैतद्वक्तव्यं समर्थोऽर्थः स्वरूपेण करोति स्वरूपं च सर्व-
दाऽस्तीत्यनुपकारिणि सहकारिण्यपेक्षा न युज्यते इति ; सत्यपि स्वरू-
पेण कारकत्वे सामर्थ्याभावात्कथं करोति ? सहकारिसाकल्यं हि साम-
र्थ्यम् ! तद्वैकल्यं चासामर्थ्यं । न च तयोराविर्भावतिरोभावाभ्यां तद्वतः
काचित् क्षतिः ; तस्य ताभ्यामन्यत्वात्। तस्मात् अर्थस्समर्थोऽपि स्यात् ; न
च करोतीति सन्दिग्धव्यतिरेकः प्रसङ्गहेतुः' इति । * साह्यमिति । एतेन-
अथ नापेक्षते नित्यः प्रत्ययान् सहकारिणः ।