2025-01-21 07:37:45 by ambuda-bot
This page has not been fully proofread.
340 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
स्मृतिदर्शनात् इति वदन्तोऽपि निरस्ताः । एवं प्रत्यभिज्ञा स्थिर-
विषयेति सिद्धे सोऽहमिति धीश्चात्मनः स्थिरत्वमुल्लेढि । तदहं
स्मरामीति स्मृतिमात्रेण चैतत्सिद्धम् । ननु विरुद्धानुपहित-
आनन्ददायिनी
बाह्यार्थे स्थैर्यं साधयित्वा आत्मनोऽपि स्थैर्यं साधयति - एवमिति ।
भावप्रकाशः
इति नैव प्रवृत्तिस्स्यात् न च वेदप्रमाणता ।
जन्मान्तरेऽभ्युपेतेऽपि ज्ञानमात्रात्मवादिनाम् ॥
ज्ञानशक्तिस्वभावोऽतो नित्यस्सर्वगतः पुमान् ।
अहम्प्रत्ययविज्ञेयः स्वयमात्मोपपद्यते ॥
यदि स्याज्ज्ञानमात्रं च क्षणिकं ज्ञातृ तत्र वः ।
न भवेत् प्रत्यभिज्ञानं पूर्वज्ञातरि संप्रति ॥
इति सिद्धान्ते । अत्र आत्मनो ज्ञानमात्रखरूपत्वे क्षणिकत्वे च
दोषकथनपूर्वकं अहम्प्रत्ययगम्यत्वं ज्ञातृत्वं नित्यत्वं च यद्यभ्युप-
गम्यते तदैव प्रवृत्त्युपपत्तिः वेदप्रामाण्यं च नान्यथा इति स्पष्टम् ।
व्यक्तीभविष्यति चायमर्थो जीवसरादौ । शान्तरक्षितेन बौद्धमतेऽपि यदि
किञ्चिन्मानसं ज्ञानमतीतादिविषयकमङ्गीक्रियते तदा प्रत्यभिज्ञाप्रत्य-
क्षेण प्रमात्मकेन स्थिरं पृथिव्यादिकमिव आत्मापि स्थिरोऽकामेना-
प्यङ्गीकरणीयः । अत एव बौद्धेष्वपि वात्सीपुत्रैस्तदनुयायिभिश्च
बुद्धिशब्दान्तरार्चिः प्रभृतीनि क्षणिकानि क्षितिव्योमादीन्यक्षणिकानि
स्थिराणि आत्माऽपि स्थिरः इत्यङ्गीक्रियते इति व्यञ्जयन्नाह – 1* एवं
प्रत्यभिज्ञा स्थिरविषयेति सिद्धे सोऽहमित्यादिना