2025-01-21 07:37:45 by ambuda-bot
This page has not been fully proofread.
सरः ] सर्वस्मृत्ययाथार्थ्यशङ्कापरिहारौ अतीतार्थस्मृतिप्रमात्वे दोषः तत्परिहारथं 339
भावप्रकाशः
नुपयुक्तः -- क्षणिकत्वसाधनानुपयुक्त इत्यर्थः । अनधिगतार्थगन्तृत्वस्य
प्रमात्वे क्षणिकत्वानुमितेरपि गृहीतग्राहित्वस्योदाहृततत्व संग्रहपञ्चिका-
वाक्यसिद्धतया तस्या अप्यप्रमात्वं स्यात् । तत्व संग्रहपञ्चिकोक्तदिशा
प्रवृत्तसमारोपव्यवच्छेदकत्वेन अनुमानप्रामाण्यस्थापने-
अतत्तामनिदन्तां च तत्त्वदन्त्वे निरस्यतः ।
इत्यत्र प्रत्यभिज्ञाया अपि प्रामाण्यं साधयिष्यत इति भावः । बौद्धानां
स्थिरसिद्धिदूषणसमारम्भः पुनलनैरात्म्यसाधनार्थः । अतएव विज्ञप्ति -
मात्रतासिद्धौ ' तद्विनेयजनान् प्रति' इत्यनेन 'अस्ति सत्त्व उपा-
दुकः' इति बुद्धोपदिष्टात्मास्तित्वप्रतिपादकवाक्यस्य अन्याभिप्राय -
कत्वं प्रकल्प्य द्वयाद्विज्ञानषट्कं प्रवर्तते न त्वेको द्रष्टास्ते न याव -
न्मन्ता इत्येवं पुद्गलनैरात्म्यं साधितम् । एवं श्लोकवार्तिकेऽप्यात्मवादे
कुमारिलेन व्यक्तमुक्तम् ——
नैरात्म्येनात्र चाक्षिप्ताः सर्वा एव हि चोदनाः ।
न च विज्ञानमात्रत्वे भोक्तृकर्तृत्वसंभवः ॥
इति पूर्वपक्षे –
तस्माद्वेदप्रमाणार्थमात्मात्र प्रतिपाद्यते ।
शरीरेन्द्रियबुद्धिभ्यो व्यतिरिक्तत्वमात्मनः ॥
नित्यत्वं चेष्यते शेषं शरीरादि विनश्यति ।
नानित्यशब्दवाच्यत्वमात्मनो विनिवार्यते ॥
विक्रियामात्रवाचित्वे न छुच्छेदोऽस्य तावता ॥
स्यातामत्यन्तनाशेऽस्य कृतनाशाकृतागमौ ।
नवस्थान्तरप्राप्तौ लोके बालयवादिवत् ॥
नैरात्म्यवादपक्षे तु पूर्वमेवावबुध्यते ।
मद्विनाशात्फलं न स्यात् मत्तोऽन्यस्याथवा भवेत् ॥
22*