2025-01-21 07:37:44 by ambuda-bot
This page has not been fully proofread.
338 सव्याख्यसर्वार्थसिद्धिसहिततत्व मुक्ताकलापे
सर्वार्थसिद्धिः
मवाधितं व्यवस्थापयेत् । '* अस्वातन्त्र्यादिविचारस्त्वत्र
2 * प्रकृतानुपयुक्तः । न तृतीयः ; यथार्थस्मृतौ विरोधाभावात् ।
सर्वापि स्मृतिरयथार्था अतीतस्य वर्तमानतयावभासादिति
चेन्न ; अतीततयाऽपि प्रायशः स्मृतिभिरर्थोल्लेखात् । प्रच्युततदा-
कारस्य तद्वत्तया भासनादयाथार्थ्यमिति चेन्न ; स्मृतिप्रमोपे
तदभावात् । अतीतादिविषयानुमानानामपि तत्प्रसङ्गाच्च । तर्हि
पाकरक्तेऽपि श्यामत्वधीर्यथार्था स्यादिति च मन्दं ; प्राचीन-
श्यामतावृद्धौ विरोधाभावात् । एतेन स्मृतिर्न बाह्यविषया नष्टेऽप्यर्थे
आनन्ददायिनी
ल्यलोपे पञ्चमी । ननु स्मृतित्वेऽस्वातन्त्र्यं न स्यादिति शङ्कां परि-
हरति—अस्वातन्त्र्येति। स्वातन्त्र्यास्वातन्त्र्ययोरर्थव्यवस्थापनादावनुपयो-
गादित्यर्थः । ननु ज्ञानं स्वसमानकालिकत्वेन स्वविषयावभासनस्व-
भावं । तथाच स्मृतिरपि स्वविषयमतीतदेशकालादिकं वर्तमानतया
गृह्णती बाधितवियत्वादप्रमेति शङ्कते - सर्वापीति । तादृशस्वभावोऽ-
सिद्ध इति परिहरति — नेति । प्रच्युततदाकारस्य - अवगतपूर्वका-
लादिसंबन्धस्य । स्मृतिप्रमोषः -- तत्तानवगाहिस्मृतिः । यथा ज्ञान-
द्वयं भ्रम इति पक्षे इदं रजतमित्यत्र रजतस्मृतिः । यदि ज्ञानस्याती-
तादिविषयकस्याप्रामाण्यनियमः तदा दोषमाह ——— अतीतेति । प्राचीन-
श्यामताबुद्धौ – प्राचीनतया श्यामताबुद्धौ श्यामतामात्रबुद्ध चेत्यर्थः ।
-
भावप्रकाशः
यता शान्तरक्षितेन प्रत्यभिज्ञायाः भ्रान्तत्वसाधनमनुचितमिति सूचितम् ।
'*अस्वातन्त्र्यादीति । आदिपदेन अधिगतार्थगन्तृत्वपरिग्रहः । ' *प्रकृता-
2