This page has not been fully proofread.

सरः] प्रत्यभिज्ञाया न केवलस्मृतित्वं, स्मृतित्वेऽपिनानिष्टं, न च तस्या अप्रमात्वं 337
 
अत
 
1
 
सर्वार्थसिद्धिः
 
;
 
एव संस्कारप्राधान्यमुत्प्रेक्ष्य केवलस्मृतित्वशङ्काऽपि
निरस्ता । * भवतु वा स्मृतित्वमपि तथाऽपि
स्मृत्यनुभवात्मकमेकं ज्ञानं स्वविषयस्य स्थिरत्वं साधयत्येव ।
कथमप्रमा स्मृतिरर्थं व्यवस्थापयेत् ? इति चेत्; किमत्रा -
प्रमात्वम् ? ज्ञानव्यतिरिक्तत्वं वा ? अनुभवव्यतिरिक्तत्वं वा ?
अयथार्थत्वं वा ? नाद्यः । असिद्धेः । न द्वितीयः त्रितयप्रकाश-
वादिभिः स्मृतेरपि आत्मस्वात्मविषयेऽनुभवत्व स्वीकारात् ।
* त्वया च स्वसंवेदनांशेऽपि । विषयांशे अनुभवव्यतिरिक्तत्वं
स्मृतेरिति चेत्; तथाभूताऽपि स्वकारणानुभवात् स्वविषय-
आनन्ददायिनी
 
2
 
संस्कारजन्यत्वं स्मृतित्वप्रयोजकमिति परिहरति—अतएवेति । उक्त-
री(ग) त्या प्रत्यक्षत्वस्य सिद्धत्वादित्यर्थः । स्वसंवेदनांशे – स्वात्मांशे
इत्यर्थः ; बौद्धैरपि स्वप्रकाशत्वस्वीकारादिति भावः । शङ्कते —विषयांशे
इति । तथाभूताऽपीति — अनुभवव्यतिरिक्ताऽपि कारणरूपानुभवमा-
क्षिप्य तद्दुरा अबाधितं विषयं साधयतीत्यर्थः । स्वकारणानुभवादिति-
 
1
 
भावप्रकाशः
 
* भवतु वा स्मृतित्वमिति । * त्वयेति । एतेन -
 
यदि वा योगसामर्थ्यात् भूताजातनिभं स्फुटम् ।
लिङ्गागमनिराशंसं मानसं योगिनां भवेत् ॥ ३४७४ ॥
स्वात्मावभाससंवित्तः तत्स्वलक्षणगोचरम् ।
 
स्पष्टावभासं संवित्तेः तच्च प्रत्यक्षमिष्यते ॥ ३४७५ ॥
 
इति तत्वसंग्रहे सौत्रान्तिकमतेनापि योगिज्ञानस्य प्रत्यक्षप्रमात्वं साध-
 
SARVARTHA.
 
22