2025-01-21 07:37:44 by ambuda-bot
This page has not been fully proofread.
336 सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
1
* प्रत्यक्षविरोधादेव ।
सर्वार्थसिद्धिः
भावप्रकाशः
प्रत्यक्षं व्यक्तभासित्वात् प्रमाणं वस्तुसंगतेः ।
चक्षुराद्याश्रयोद्भूतनीलादिप्रतिभासवत् ॥ ३४४४ ॥
[जडद्रव्य
इत्यादि च । अत्र योगिज्ञानस्यापि मानसत्वोक्तया ' मनोऽसंबद्ध '
इत्याचार्यसूक्तौ तदनुपपत्तिः विवक्षितेति बोध्यम् । एतच्च बुद्धिसरे
स्मृतिवदनुभवोऽप्यस्ति नष्टादिकेषु ( १२४ ) ' इत्येतद्विवरणे ' अती-
तानागतानुमानागमयोगिप्रत्यक्षेषु नष्टविषयकत्वेऽपि याथार्थ्यं भवाने-
वाङ्गीकरोतीत्यर्थः' इत्यत्र व्यक्तीभविष्यति । 1 * प्रत्यक्षाविरोधादेवेति-
यस्मात् प्रत्यक्षबलोत्पन्नेनाध्यवसायेन दृष्टत्वेनार्थोऽध्यवसीयते ' इति
(३७) उदाहृतधर्मोत्तराचार्यवाक्योक्तदिशा अनन्तरोत्पन्नज्ञानेन प्रथम-
ज्ञानस्य प्रत्यक्षतासिद्धिरिति भावः ।
"
पूर्वसंविदिता कारगोचरं चेदिदं भवेत् ।
जायेत पूर्वमेवेदम्
"
11
इत्युक्तिरपि योगिज्ञानस्यापि योगबलात्पूर्वमुत्पत्तिप्रसङ्गवदेव समाधेया ।
तत्र पूर्वं योगाभ्यासबलविरहवदत्रापि संस्कारसचिवेन्द्रियरूपकारणविग-
मस्य सुवचत्वात् । योगाभ्यास वलाद्योगिज्ञानेऽतीतार्थानामिव अत्राऽपि
संस्कारबलात् पूर्वसंविदिताकारस्य भानं; स्फुटाभत्वाद्योगिज्ञाने प्रत्यक्षत्व-
मिव तमेतं पश्यामीति प्रतीतिबलादत्रापि प्रत्यक्षत्वं चाप्रकम्प्यम् ।
बौद्धप्रत्यक्षलक्षणं शून्यानात्मादिरूपस्य भाविकत्वं च बुद्धिसरे दूष-
यिष्यते । अतः ' अभेदाध्यवसायेन भिन्नरूपेऽपि ' इत्यादिकमपि
हेयं । भिन्नरूपत्वस्यासिद्धेरिति । एतच्च ' तत्त्वदन्त्वे हि ' इति लोके
साधयिष्यते । 'निष्पादितक्रिये चार्थे' इत्यादि दूषयितुं स्मृतित्वमभ्युपे -
--
त्याह--
,