This page has not been fully proofread.

सरः] इन्द्रियासंबद्धग्रहणानुपपत्तितत्परिहारसाम्यं प्रामाण्योपपत्तिः स्मृतित्वापत्तिश्च 335
 
सर्वार्थसिद्धिः
 
भयजन्यसंस्कारसहकारादिति चेत्; समानमत्राऽपि । दृष्टत्वा-
तथैव तत्रेति चेत्; अत्रापि तथैव । वेद्याकारैकदेशादुत्पन्नस्य
प्रत्यक्षत्वे शुक्तिरजतधीरपि मानं स्यादिति चेन्न ; आरोपाना-
रोपाभ्यां विशेषात् । किञ्च संस्कारोपनीतरजताद्यारोपे च
इदं रजतमिति चाक्षुषबुद्धिरेका । न हि तत्र रजताद्बुद्धयु -
त्पत्तिः ! तस्यासन्निहितत्वात् । अर्थजत्वेन त्वदुक्ताविसंवादित्व-
प्रसङ्गाच्च । इन्द्रियजन्यतया प्रत्यक्षत्ववत् संस्कारजन्यतया -
स्मृतित्वमपि दुर्निवारमिति चेन्न; तमेतमनुभवामि पश्यामीत्यादि
आनन्ददायिनी
 
-
 
वेद्याकारो विषय इत्यर्थः । प्रत्यक्षत्वे – प्रत्यक्षप्रमात्वे । शुक्ति-
रजतेति--तस्या अपि वेद्याकारैकदेशेदमंशजन्यत्वादिति भावः । अर्थ-
जन्यत्वाभावे किं प्रमात्वं न स्यादिति विवक्षितम् ? उत तदैक्यं
न स्यादिति ? इति विकल्पमभिप्रेत्य आद्यं परिहरति — आरोपेति ।
अर्थजत्वाभावेऽपि बाधितेतरविषयत्वेन अनुमितिवत् प्रामाण्यसम्भवा-
दिति भावः । द्वितीयं परिहरति-- किञ्चेति । तथाच व्यभिचारादर्थ-
जत्वं तदैक्यस्याप्रयोजकमित्यर्थः । तमेतमिति –—–संस्कारजन्यत्वं स्मृति-
त्वप्रयोजकं न भवतीत्यर्थः । नन्विन्द्रियस्येव संस्कारस्य प्राधान्यात् केवल-
स्मृतित्वमस्तु विनिगमकाभावात् इति शङ्कां बाह्येन्द्रियसन्निकर्षनिरपेक्ष-
 
भावप्रकाशः
 
शून्यानात्मादिरूपस्य भाविकत्वं च साधितम् ।
भूतार्थभावनोद्भूतेः प्रमाणं तेन संमतम् ॥ ३४४३ ॥