This page has not been fully proofread.

सर:] प्रत्यभिज्ञायाः एकबुद्धित्वं तदंशस्य ग्राह्यत्वे आक्षेपः तत्र प्रतिबन्दिश्च 333
 
भावप्रकाशः
 
येन जनितं तन्मनोविज्ञानम् । सर्वं चित्तचैत्तानामात्मसंवेदनम् । ।
भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं च इति । अत्र धर्मोत्तरा-
चार्य : - ' तदनेनैकसंतानान्तर्भूतयोरेवेन्द्रियज्ञानमनोज्ञानयोर्जन्यजनक-
भावे मनोविज्ञानं प्रत्यक्षमित्युक्तं भवति । ततो योगिज्ञानं परसन्तानवर्ति
निरस्तम् । यदा चेन्द्रियज्ञानविषयादन्यो मनोविज्ञानस्य तदा गृहतिग्रह-
गादासञ्जितोऽप्रामाण्यदोषो निरस्तः । यदा चेन्द्रियज्ञानविषयोपादेयभूतः
क्षणो गृहीतः तदा इन्द्रियज्ञानेनागृहीतस्य विषयान्तरस्य ग्रहणादन्धब-
धिराद्यभावदोषप्रसङ्गो निरस्तः । एतच्च मनोविज्ञानमुपरतव्यापारे चक्षुपि
प्रत्यक्षमिष्यते। व्यापारवति तु चक्षुषि यद्रूपज्ञानं तत्सर्वं चक्षुराश्रितमेव ।
इतरथा चक्षुराश्रितत्वानुपपत्तिः कस्यचिदपि विज्ञानस्य । एतच्च सिद्धा-
न्तप्रसिद्धं मानसं प्रत्यक्षं न त्वस्य प्रसाधकमस्ति प्रमाणम्' इति । एवं
'भूतस्सद्भूतोऽर्थः । प्रमाणेन दृष्टश्च सद्भूतः । यथा चत्वार्यार्यसत्यानि I
भूतार्थस्य भावना पुनःपुनश्चेतसि विनिवेशनम् । भावनायाः प्रकर्षो
भाव्यमानर्थाभासस्य ज्ञानस्य स्फुटाभत्वारम्भः । प्रकर्षस्य पर्यन्तो
यदा स्फुटाभत्वमीषदसंपूर्णं भवति । यावद्धि स्फुटाभत्वमपरिपूर्णं
तावत्तस्य प्रकर्षगतिः । संपूर्णं तु यदा तदा नास्ति प्रकर्षगतिः । ततः
संपूर्णावस्थायाः प्राक्तन्यवस्था स्फुटाभत्वप्रकर्षपर्यन्त उच्यते । तस्मा-
त्पर्यन्ताद्यज्ञातं भाव्यमानस्य संनिहितस्येव स्फुटतराकारग्राहि ज्ञानं
योगिनः प्रत्यक्षं । तदिह स्फुटाभत्वारम्भावस्था भावनाप्रकर्षः । अभ्रक-
व्यवहितमिव यदा भाव्यमानं वस्तु पश्यति सा प्रकर्षपर्यन्तावस्था ।
करतलामकवद्भाव्यमानस्यार्थस्य यद्दर्शनं तद्योगिनः प्रत्यक्षम् ।
ताद्धे स्फुटाभम् । स्फुटाभत्वादेव च निर्विकल्पकम् । विकल्पविज्ञानं हि
संकेतकालदृष्टत्वेन वस्तु गृह्णत् शब्दसंसर्गयोग्यं गृह्णीयात् । संकेतकाल-
दृष्टत्वं च संकेतकालोत्पन्नज्ञानविषयत्वम् । यथा च पूर्वोत्पन्नं विनष्टं ज्ञानं
 
I