This page has not been fully proofread.

332
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
त्यादिषु उभयाकारविशिष्टस्यैकस्य दृशिकर्मत्वदृष्टेः बुद्धयैक्यं
दुरपह्नवम् । अत एव ग्रहणस्मरणात्मकमिदं ज्ञानमिति वदन्तः
प्रत्युक्ताः । `* ननु कथमिन्द्रियासंबद्धस्तदंश इदानीमिन्द्रियेण
गृह्येत ? 2 * मनोऽसंबद्धोऽनुभूतविषयः कथं मनसा ? तदु-
आनन्ददायिनी
 
बाधकाभावे सामानाधिकरण्यविषयत्वनियमादिति भावः । उभयाकारेति-
पूर्वकालिकत्ववर्तमानकालिकत्वविशिष्टस्यैकस्यैवेत्यर्थः । उभयधर्मविशिष्ट-
स्यैकस्य दृक्कर्मत्वं बुद्ध्यैक्यमापादय (माक्षिप ) तीति भावः । अन्यथा दृशि -
प्रयोगवत् अधीगर्थप्रयोगोऽपि स्यादित्यर्थः । केचित्तु दृशिकर्मत्वदृष्टे :-
प्रत्यक्षमात्रकर्मत्वस्य द्वितीयाप्रयोगे दर्शनात् । अन्यथा तमित्यत्र
अधीगर्थसम्बन्धेन षष्ठीप्रसङ्गादित्याहुः । ननु स्मृतिकर्मदृक्कर्मभेदा-
ग्रहादुभयकर्मत्वविशिष्टे कर्मत्वव्यवहार इति चेत्; अत्र वदन्ति-
बाधकाभावेन भेदाग्रहादैक्यव्यवहारस्य वक्तुमयुक्तत्वात् । न च सत्त्वा-
नुमानं बाधकं ; तस्यास्मात्प्रत्यक्षा दुर्बलतया बाधितत्वेन स्वरूपालाभा-
तस्यास्मात्प्रत्यक्षाद्दुर्बलतया
दिति । अत एवेति—ज्ञानस्यैक्ये सिद्धे तस्य च प्रत्यक्षत्वे विरोधि -
परोक्षत्वव्याप्यस्य स्मृतित्वस्य प्रत्यक्षे विरोधादिति भावः । वदन्तः -
मीमांसकाः । ज्ञानद्वयवादी ग्रहणस्मरणात्मकज्ञानवादी च शङ्कते -- नन्विति
भावप्रकाशः
 
-
 
--
 
पूर्वदृष्टस्यासन्निहितत्वात् । असन्निहितविषयं चार्थनिरपेक्षमिति ' इति
भावेन शङ्कते – 1 * नन्वित्यादि । 2 * मनोऽसंबद्ध इत्यादि -- मानस-
ज्ञानस्यापि तन्मते प्रत्यक्षत्वेन प्रमात्वमवश्याभ्युपेयं । तदुक्तं न्यायबिन्दौ
धर्मकीर्तिना —' कल्पनापोढमभ्रान्तं प्रत्यक्षं ' इत्युपक्रम्य तच्चतुर्विधं-
इन्द्रियज्ञानं स्वविषयानन्तरविषय सहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्य-