This page has not been fully proofread.

सरः] दृष्टान्तान्तरं प्रत्यभिज्ञयैक्यसिद्धिः अतिप्रसङ्गपरिहारः बुद्धिभेदशङ्काच 331
 
सर्वार्थसिद्धिः
 
तस्या न साधकत्वम् । ननु स इति धीः स्मृतिः अयमित्य-
नुभवः निरन्तरोत्पत्तेः ज्वालाक्षणेष्विव तयोः भेदाग्रहः इति ;
 
1
 
* तन्न ; समानाधिकरणबोधात् । यद्यपि सोऽयमिति व्यवहारे
तादृशधीभेदेन वैयधिकरण्यशङ्का ; तथाऽपि तमिमं पश्यामी-
 
आनन्ददायिनी
 
नदीप्रत्यभिज्ञायां व्यभिचारश्च परिहृतः । प्रतिपक्षे बाधितत्वमुपाधिरिति
न तुल्यबलता । विरुद्धानुपहितविषयत्वाभावाद्व्यभिचाराभावश्चेति
ध्येयम् । ननु प्रत्यभिज्ञाया ऐक्यसाधकत्वमनुपपन्नं ज्ञानद्वयात्मकत्वेन
तस्याः पूर्वापरकालवर्तिवस्तुविषयकत्वस्य प्रत्येकमभावात् । न च तदु-
भयगोचरज्ञानद्वयादैक्यसिद्धिः ; उभयत्रोभयगोचरत्वाभावे तदैक्यगोचर-
त्वासम्भवादिति शङ्कते— नन्विति । तर्हि बुद्धावैक्यगोचरबुद्धिः कथ-
मित्यत्राह — निरन्तरोत्पत्तेरिति । ज्वालाक्षणषु – ज्वालारूपवस्तुषु ।
परिहरति—तन्नेति । ऐक्यरूप सामानाधिकरण्यविषयव्यवहारहेतुबोधस्य
 
6
 
-
 
l
 
भावप्रकाशः
 
अनुस्मृतेश्च' इति सूत्रवेदान्तदीपोक्तदिशा समाधत्ते । * तन्नेति ।
ननु वैभाषिकैः प्रमात्वमर्थजत्वं तेनाविसंवादित्वं वा इति स्थापितं ।
इत्थं च प्रत्यभिज्ञायां तदंशेऽर्थजत्वविरहान्न प्रमात्वं ; यथाऽऽह
न्यायबिन्दुटीकायां धर्मोत्तराचार्य : - 'कुतः पुनरेतद्विकल्पोऽर्थान्नोत्प-
द्यते अर्थसन्निधिनिरपेक्षत्वात् । बालोऽपि हि यावद्दृश्यमानं स्तनं स
एवायमिति पूर्वदृष्टत्वेन न प्रत्यवमृशति तावन्नोपरतरुदितो मुखम-
पयति स्तने । पूर्वदृष्टापरदृष्टं चार्थमेकीकुर्वद्विज्ञानमसन्निहितविषयं