This page has not been fully proofread.

330
 
सध्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
1 * रूपादिवदित्येव वोदाहर्तव्यम् । तदियं प्रमितिस्सती
प्रत्यभिज्ञा पूर्वापरकालवर्तिविषयं साधयति । दीपनदीप्रवा -
हकृत्तपुनः प्ररूढकेशादिषु तु संप्रतिपन्नसामग्रीभेदादिबाधकवलात्
 
आनन्ददायिनी
 
ननु तेषां धर्मधर्मिभावाभावात् कथमेकत्वबुद्धिर्दृष्टान्तः ? इत्यत
आह-रूपादिधीवदिति । तथा च एकत्वधी :- अभेदधीरित्यर्थः । प्रत्य-
भिज्ञाया ऐक्यसाधकत्वे अतिप्रसङ्गं परिहरति नदीप्रवाहेति । सम्प्रति-
पन्नेति । तथा च न तुल्यबलत्वमिति भावः । आद्यदीपज्वालोत्पत्तौ
अग्निवर्त्यवयवसंयोगो हेतुत्वेन निश्चितः । तथाऽन्त्यवर्तिसंयोगनाशो
ज्वालानाशहेतुत्वेनावगतः । ततः प्रतिक्षणं अग्निवर्त्यवयवसंयोगतन्नाशानां
भिन्नभिन्नानामुत्पद्यमानानां प्रतिक्षणं ज्वालातन्नाशोत्पादकत्वात् तत्र प्रत्य-
भिज्ञा बाधिता न साधिकेत्यर्थः । एतेन विप्रतिपन्नैकत्वधीः न प्रमा
प्रत्यभिज्ञात्वात् नद्यादिप्रत्यभिज्ञावदिति प्रतिरोधः । तथा पूर्वानुमाने
 
भावप्रकाश:
 
इति । आर्यलङ्कावतारसूत्रे क्षणिकतापरिवर्ते तु अन्यार्थ इत्युक्तम् ।
अनुत्पत्तिं च धर्माणां क्षणिकार्थं वदाम्यहम् ।
 
उत्पत्त्यनन्तरं भङ्गं न वै देशेमि बालिशान् ॥
 
इतीति भावः । ननु वैभाषिकमते एकत्वस्य धर्म्यभेदेऽपि तत्प्रकारकज्ञान-
मेवैकत्वधीः न तु धर्मिमात्रावगाहि निर्विकल्पकं । तत्प्रकारकज्ञानं च
अतद्रूपपरावृत्त्यवगाहि विकल्प एवेति न प्रमेति तत्सिद्धान्त इत्यतो
धर्मिमात्रावगाहि निर्विकल्पकमेव दृष्टान्तयति -- * रूपादिधीवदिति ।
-1