2025-01-21 07:37:40 by ambuda-bot
This page has not been fully proofread.
सरः] त्रिगुणपरीक्षायां स्थैर्यसाधक प्रत्यभिज्ञाप्रमात्वसाधनं दृष्टान्तसिद्धिश्च 327
भावप्रकाशः
न तदेकं नचानेकं विषयः परमाणुशः ।
इति । इदं च तत्त्वसंग्रहे शान्तरक्षितेन -
-
यदि ज्ञानातिरेकेण नास्ति भूतचतुष्टयम् ।
तत्किमेतन्नु विच्छिन्नं विस्पष्टमवभासते । (१९३५)
तस्यैवं प्रतिभासेऽपि नास्तितोपगमे सति ।
चित्तस्यापि किमस्तित्वे प्रमाणं भवतां भवेत् ।
भासमानः किमात्माऽयं बाह्योऽर्थः प्रतिभासते ॥
इत्यारभ्य-
असन्निश्चययोग्योऽतः परमाणुर्विपश्चिताम् । .
एकानेकस्वभावेन शून्यत्वाद्वियदब्जवत् ॥ (१९९७)
इत्यन्तसंदर्भेण वैभाषिकसौत्रान्तिकमतयोर्दूषणेन दृढीकृतं । एवं च-
विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते ।
इयमेवात्मसंवित्तिरस्य या जडरूपता । (२०००)
इत्यादिना तत्वसंग्रहे वैभाषिकसौत्रान्तिकाभिमतं अर्थसंवेदनं प्रतिषिध्य
योगाचाराभिमतात्मसंवेदनसाधनं तु न सम्यक् ; माध्यमिकैः सर्वत्र
निस्स्वभावत्वलक्षणशून्यत्वस्य स्थापनेन जडस्वभावतद्व्यावृत्तस्वभावयो-
इशशविषाणसोदरत्वात् । किञ्च—
विज्ञप्तिमात्रतासिद्धिर्धीमद्भिर्विमलीकृता ।
अस्माभिस्तद्दिशा यातं परमार्थविनिश्चये ॥ (२०८४)
इति तत्वसंग्रहे उक्तं । तत्र धीमन्तो विंशतिकारिका विज्ञप्तिमात्रता-
सिद्धिकृतः । तैश्च त्रिंशतिकाविज्ञप्तिकारिकासु-
त्रिविधस्य स्वभावस्य त्रिविधां निस्स्वभावताम् ।
संघाय सर्वधर्माणां देशिता निस्स्वभावता ॥