2025-01-21 07:37:40 by ambuda-bot
This page has not been fully proofread.
326
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
बलाद्वाधः । विप्रतिपन्ना एकत्वधीः प्रमा' *विरुद्धधर्मासंसृष्टविषय-
त्वात् '* सम्मतैकत्वधीवत् । न हि स्वलक्षणानां प्रत्येकमेकत्वं
नास्ति! तथा सति एकानेकसर्वविकल्पलोपेन माध्यमिकवि-
जयप्रसङ्गात् ।
आनन्ददायिनी
तथा सतीति—स्वलक्षणं किञ्चिदपि एकं वा भिन्नं वा ? भिन्नमपि
किञ्चिदेकं वा भिन्नं वा ? इति विकल्पेन स्वलक्षणसर्ववस्तुविलोपप्रसङ्गेन
माध्यमिकमतप्रसङ्ग इत्यर्थः । सर्वस्याप्येवं विकल्पे कुत्रापि विश्रमाभा-
वात् स्वलक्षणं भिद्यमानस्वरूपमेव यादव मुसलनीत्या न भवेदिति भावः ।
भावप्रकाशः
द्वितीयक्षणभङ्गसिद्धौ रत्नकीर्तिनेति तत्रैव द्रष्टव्यम् । ' *विरुद्धेत्यादि-
न्यायसिद्धाञ्जने तु अबाधितबुद्धित्वादिति हेतुरुक्तः । *सम्मतैकत्वधीव
दिति—यद्यपि अभिज्ञाप्रत्यभिज्ञाविषययोरेकत्वयोर्भेदोऽद्रव्यसरे वक्ष्यते ।
तथाऽप्येकत्वशब्देनो भयोरभिधानेनैकत्वविषयकत्वं धीद्वयस्याप्यक्षतम् ।
बौद्धमते तु —
अतद्रूपपरावृत्तगजादिव्यतिरेकिणी ।
न संख्या भासते ज्ञाने दृश्येष्टा नैव सास्ति तत् ॥
3
इति तत्वसंग्रहे (६३८) शान्तरक्षितेन एकत्वसंख्यायाः धर्मिरूपाया
भानाङ्गीकारेण बाह्यार्थवादिवैभाषिकमते तज्ञानस्य अनुमानप्रामाण्योपपाद-
नदिशा प्रमात्वं संभवतीति भावः । * एकानेकसर्वविकल्पलोपेन माध्य-
मिकविजयप्रसङ्गादिति । तदुक्तं वसुबन्धुना विंशतिकारिकाविज्ञप्तिमा-
त्रतासिद्धौ--
रूपाद्यायतनास्तित्वं तद्विनेयजनान् प्रति ।
अभिप्रायवशादुक्तमुपपादुकसत्त्ववत् ॥