This page has not been fully proofread.

सरः] क्षणभङ्गसाधनानुकूलव्याप्तितक प्रत्यभिज्ञाप्रमात्वसाधनस्यासिद्धिपरिहारश्च 325
 
तत्वमुक्ताकलापः
 
विरुद्धानुपहित विषया साधयेत् प्रत्यभिज्ञा
 
सर्वार्थसिद्धिः
 
इति ' * यदक्षणिकं तदवस्तु यथा खसूनं । अक्षणिकत्वे चामीषां
तद्वदसत्त्वप्रसङ्ग इति भावः । विरुद्धानुपहितविषयेति — विरुद्ध-
धर्मासंसृष्टविषयेत्यर्थः । दीपस्रोतःप्रभृतिषु अनन्यथासिद्धभदक-
 
आनन्ददायिनी
 
-
 
अवस्तु—असदित्यर्थः । विरुद्धेति – कथञ्चिदपि परस्परसामानाधि-
करण्यानर्हधर्मा (संसृष्ट) नाश्रयविषयेत्यर्थः । भेदकं – सामग्रीभेदादि ।
 
भावप्रकाशः
 
वस्तुमात्रं साक्षादस्फुरणात् प्रत्यक्षस्य ग्राह्यो विषयो मा भूत् ; तदेक-
देशग्रहणे तु तन्मात्रयोर्व्याप्तिनिश्चायकविकल्पजननादध्यवसेयो विषयो
भवत्येव क्षणग्रहणे सन्ताननिश्चयवत् रूपमात्रग्रहणे घटनिश्चयवच्च ;
अन्यथा सर्वानुमानोच्छेदप्रसङ्गात् इत्यपि ॥ यस्य क्रमाक्रमिकार्यविषयत्वं
नास्ति न तच्छक्तं यथा शशविषाणं । नास्ति च नित्याभिमतस्य
भावस्य क्रमाक्रमिकार्यविषयत्वमिति व्यापकानुपलम्भेन विपर्यये बाधक-
प्रमाणेन व्याप्तिसाधनं सूचयन्—
 
व्यतिरेकात्मिकां व्याप्तिमाक्षिप्तान्वयरूपिणीम् ।
वैधर्म्यवति दृष्टान्ते सत्त्वहेतोः प्रभाषते ॥
 
' *यदक्षणिकमित्यादिना व्यापकानुपलम्भः अक्षणिकस्यासत्त्वं सत्त्वस्य
ततो व्यतिरेकं क्षणिकत्वेन व्याप्तिं च साधयत्येकव्यापारात्मनेति स्थापितं