This page has not been fully proofread.

324
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
* यत्सत् तत् क्षणिकं यथा जलधरः सन्तथ भावाः '
 
भावप्रकाशः
 
मिति न स्फुटमिति प्रकृतोपयोगि ज्ञानश्रीवाक्यमादत्ते '* यत्सत्तत्
क्षणिकमित्यादि-
 
यत्सत्तत्क्षणिकं यथा जलधरः सन्तश्च भावा अमी
सत्ताशक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा न सा ।
नाप्येकैव विधाऽन्यथा परकृतेनापि क्रियादिर्भवेत्
द्वेधाऽपि क्षणभङ्गसन्ततिरतः साध्ये च विश्राम्यति ॥
 
इति पूर्ण श्लोकः ।
 
आक्षिप्तव्यतिरेका या व्याप्तिरन्वयरूपिणी ।
 
साधर्म्यवति दृष्टान्ते सत्त्वहेतोरिहोदिता ॥
 
घटापेक्षया जलधरे क्षणिकत्वं सुग्रहमित्यभिप्रेत्य दृष्टान्ततोक्तिः । यदि
तत्राऽपि विप्रतिपत्तिः तदा प्रसङ्गतद्विपर्ययाभ्यां दृष्टान्ते क्षणिकत्वं साध-
नीयम्, तत्प्रकारः क्षणभङ्गसिद्धावुक्तः अत्र प्रयोगः - यत् यदा
यज्जननव्यवहारयोग्यं तत् तदा तज्जनयत्येव ; यथा अन्त्या कारणसामग्री
स्वकार्यं । अतीतानागतक्षणभाविकार्यजननव्यवहारयोग्यश्चायं घटो वर्त -
मानक्षणभाविकार्यकरणकाले सकलक्रियातिक्रमकालेऽपीति स्वभावहेतु-
प्रसङ्गः । यत् यदा यन्न करोति तत्तदा तत्र समर्थव्यवहारयोग्यं ; यथा
शाल्यङ्कुरमकुर्वन् कोद्रवः शाल्यङ्कुरे । न करोति चैष घटो वर्तमानक्षण-
भाविकार्यकरणकाले सकलक्रियातिक्रमकाले चातीतानागतक्षणभाविकार्य-
मिति व्यापकानुपलब्धिर्भिनत्ति समर्थक्षणादसमर्थक्षणम् । व्यापकानु-
पलब्धिः प्रसङ्गविपर्ययः इति । एवं नानाकालस्यैकस्य वस्तुनो वस्तु-
तोऽसंभवेऽप्यतद्रूपपरावृत्तयोरेव साध्यसाधनयोः प्रत्यक्षेण व्याप्तिग्रहणात् ।
द्विविधो हि प्रत्यक्षस्य विषयो ग्राह्येोऽध्यवसेयश्च । सकलातद्रूपपरावृत्तं