This page has not been fully proofread.

322
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
भावप्रकाशः
 
[जडद्रव्य
 
प्रतीतिः ! यथा प्रत्यक्षमनुमानं प्रत्यक्षपृष्ठभावी च विकल्पः । अवस्तु-
नस्तु सामर्थ्याभावाद्विकल्पमात्रमेव प्रतीतिः । वस्तुनो हि वस्तुबल
भाविनी प्रतीतिः ! यथा साक्षात्प्रत्यक्षं परम्परया तत्पृष्ठभावी विकल्पोऽनु-
मानं च' इति । तत्वसंग्रहव्याख्यायां पञ्चिकायामपि (१३०६ श्लो
' प्रत्यक्षं कल्पनापोढमपि सजातीयविजातीयव्यावृत्तवस्त्वाकारानुगमाच्च
तत्रैव वस्तुनि विधिप्रतिषेधावाविर्भावयति अनलोऽयं नासौ कुसुमस्तब-
कादिरिति । तयोश्च विकल्पयोः पारम्पर्येण वस्तुनि प्रतिबन्धादविसं-
वादित्वेऽपि न प्रामाण्यमिष्टं । दृश्यविकल्प्ययोरेकत्वाध्यवसायेन प्रवृत्तेरन-
धिगतवस्तुरूपाधिगमाभावात् ' इति । नन्वनधिगतार्थगन्तृत्वं तत् ।
तदुक्तं तत्वसंग्रहे—
 
6
 
l
 
विज्ञातार्थाधिगन्तृत्वात् स्मार्तज्ञनसमं परम् । (१२९८)
 
6
 
इति । तत्र पञ्चिका – 'यत् गृहीतग्राहि ज्ञानं न तत्प्रमाणं यथा स्मृतिः
गृहीतग्राही च प्रत्यक्षपृष्ठभावी विकल्प इति व्यापकविरुद्धोपलब्धि-
रिति, इति चेत्; न; बौद्धमते स्वलक्षणस्यैव प्रत्यक्षविषयत्वेन तस्य
विकल्पेऽभानेन तथोक्तयसंभवात् । अध्यवसेयं परिभाषामात्रासिद्धं कंचन
विषयं प्रकल्प्य विकल्पस्य यथाकथञ्चिदधिगतार्थगन्तृत्वाङ्गीकारेऽपि
प्रत्यक्षेणैव शब्दादौ धर्मिणि गृहीतत्वादनित्यतादेः तत्रानुमानविकल्पः
प्रवर्तमानः प्रमाणं न प्राप्नोति' इति पञ्चिकोक्त एव दोषः । न
शब्दे धर्मिणि गृहीतेऽपि तदव्यतिरोर्क क्षणिकत्वमगृहीतमिति व्यवस्था-
प्यते' (४५८) इति पञ्चिकायामुक्तेः । ' प्रत्यक्षमुत्पन्नमपि यत्रांशेऽवसायं
जनयति स एवांऽशो व्यवहारयोग्यो गृहीत इत्यभिधीयते । यत्र तु
भ्रान्तिनिमित्तवशात्समारोपप्रवृत्तेर्न व्यवसायं जनयितुमीशं स व्यवहारा-
योग्यत्वात् गृहीतोऽप्यगृहीतप्रख्य इति तत्रानुमानस्य प्रवृत्तसमारोपव्यव -
च्छेदाय प्रवर्तमानस्य प्रामाण्यं भवति न पुनः प्रत्यक्षानन्तरभावीवकल्पस्य।