2025-01-21 07:37:39 by ambuda-bot
This page has not been fully proofread.
सरः ]
त्रिगुणपरीक्षायां क्षणभङ्गसाधनानुवादः
321
भावप्रकाशः
इत्यत्रावस्तुनिर्भासस्यासंवादादिहेतुत्वाभिधानेन च अनुमानेन वस्तु-
धर्मस्य क्षणिकत्वस्य साधनोद्यमोऽनुचित इत्यपि वस्तुस्थैर्यमित्यनेन
सूच्यते । यच्च रत्नकीर्तिना प्रथमक्षणभङ्गसिद्धौ - ' विकल्पेन यदुपनीयते
तत्सर्वमवस्तु । ततश्च वस्त्वात्मके क्षणिकत्वे साध्ये अवस्तूपस्थापयन्ननु-
मानविकल्पो विरुद्धः' इत्याक्षिप्य ' अवस्तुनो वस्तुनो वा स्वाकारस्य
ग्राह्यत्वेऽपि अध्यवसेयवस्त्वपेक्षयैव सर्वत्र प्रामाण्यप्रतिपादनात् वस्तुस्व-
भावस्यैव क्षणिकत्वस्य सिद्धिरिति क्क विरोधः ? यच्च गृह्यते यच्चाध्यवसी-
यते ते द्वे अपि अन्यनिवृत्तौ न वस्तुनी स्वलक्षणावगाहित्वे अभिलापसं-
सर्गानुपपत्तोरिति चेत्; न; अध्यवसायस्वरूपापरिज्ञानात् । अगृहितेऽपि
वस्तुनि मानस्यादिप्रवृत्तिकारकत्वं विकल्पस्याध्यवसायित्वं । अप्रति-
मासेऽपि प्रवृत्तिविषयीकृतत्वमध्यवसयत्वं । एतच्चाध्यवसेयत्वं स्वलक्षण-
स्यैव युज्यते नान्यस्य अर्थक्रियार्थित्वादार्थप्रवृत्तेः । एवं चाध्यवसाये
स्वलक्षणस्यास्फुरणमेव । न च तस्यास्फुरणेऽपि सर्वत्राविशेषेण प्रवृत्त्याक्षे-
पप्रसङ्गः । प्रतिनियतसामग्री प्रसूतात् प्रतिनियतस्वाकारात् प्रतिनियत-
शक्तियोगात् प्रतिनियत एवातद्रूपपरावृत्ते अप्रतीतेऽपि प्रवृत्तिसामर्थ्य-
दर्शनात् । यथा सर्वस्यासत्त्वेऽपि बीजादङ्कुरस्यैवोत्पत्तिः दृष्टस्य नियत-
हेतुफलभावस्य प्रतिक्षेप्तुमशक्यत्वात् । परं बाह्येनार्थेन सति प्रतिबन्धे
प्रामाण्यमन्यथा त्वप्रामाण्यमिति विशेषः ' इति समाधानमुक्तं तत्रेदं
विचारणीयम् - प्रामाण्यं कीदृशं ? इति अभिमतार्थक्रियासमर्थार्थ-
प्रापणशक्तिमत्त्वं प्रामाण्यं 'सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः' इति
न्यायबिन्दूपक्रमवाक्यव्याख्याने व्यक्तमेतत् । एवं तत्वसंग्रहादौ ; इति
चेत् ;
अस्य प्रत्यक्षपश्चाद्भाविविकल्पसाधारणस्य प्रत्यभिज्ञायामपि
सत्त्वेन रत्नकीर्तिना तदप्रामाण्योक्तिरनुचिता । यथोक्तं तेनैव द्वितीयायां
क्षणभङ्गसिद्धौ - साक्षात्पारम्पर्येण वस्तुसामर्थ्यभाविनी हि वस्तु-
SARVARTHA.
21