2025-01-21 07:37:37 by ambuda-bot
This page has not been fully proofread.
320
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
वस्तुस्थैर्य
तत्वमुक्ताकलापः
सर्वार्थसिद्धिः
निरस्यति—'*वस्तुस्थैर्यमिति । * वस्तुशब्देन सच्चानुमानस्-
चनम् । यथाऽऽहु:-
आनन्ददायिनी
वस्तुशब्देनेति । तस्य सत्त्व (वस्तु)वाचित्वादिति भावः ।
भावप्रकाशः
पूर्वं संविदिताकारगोचरं चेदिदं भवेत् ।
जायेत पूर्वमेवेदं तादर्थ्यात्पूर्वबुद्धिवत् ॥
नचैवं तेन नैवेदं तदर्थग्राहकं मतम् ।
अभेदाध्यवसायेन भिन्नरूपेऽपि वृत्तितः ।
मायागोलकविज्ञानमिव भ्रान्तमिदं स्थितम् ॥ ४५० ॥
निष्पादितक्रिये चार्थे प्रवृत्तेः स्मरणादिवत् ।
न, प्रमाणमिदं युक्तं करणार्थविहानितः ॥ ४५१॥
इति तत्वसंग्रहे शान्तरक्षितेन प्रत्यभिज्ञायाः भ्रान्तत्वसाधनसरणिरयुक्ते-
त्यभिप्रेत्याह—'* वस्तुस्थैर्यमितीत्यादि । * वस्तुशब्देनेति — न्याय-
बिन्दौ
6
।
2
अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः
,
-
इत्युदाहृतधर्मकीर्ति-
वचनादिति भावः । सिद्धान्ते अनुमानस्य वस्तुधर्मग्राहकत्वाङ्गीकारात्
स्थिरत्वं वस्तुधर्मः अनुमानेन साधयितुं शक्यते । बौद्धमते उदाहृत-
धर्मकीर्तिवचनेन अनुमानस्यापरमार्थसामान्यग्राहकत्वस्थापनेन--
कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम् ।
विकल्पोऽवस्तुनिर्भासादसंवादादुपप्लवः ॥