2025-01-21 07:37:37 by ambuda-bot
This page has not been fully proofread.
सरः]
त्रिगुणपरीक्षायां क्षणभङ्गावतरणम्
319
सर्वार्थसिद्धिः
त्रयप्रतिपक्षं '* वैनाशिकमतं
आनन्ददायिनी
'वैनाशिको – बौद्धः । विनाशं व्यवहरतीति ठक् ।
भावप्रकाश:
इत्यादिना स्वपक्षदूषणोद्धारः कृतः । आचार्यैश्च नित्यात्मतत्वाङ्गीकर्तृ-
वैभाषिकैकदेशिमते परमतभङ्गे क्षणिकतत्वसाधकहेतोर्विरोध उद्भावित
इति नैतत्पक्षस्साधीयानित्याचार्याणामाशयः । वैनाशिकत्वं च नैतेषां ।
परमाण्वादीनां निरन्वयविनाशानङ्गीकारात्खलु काणादानामाक्षपादा-
नामर्धवैनाशिकता । वस्तुसामान्यस्य निरन्वयविनाशमङ्गीकुर्वतामेव
वैनाशिकता न तु स्थिरद्रव्यमभ्युपगच्छतामिति । एतदेवाभिप्रेत्य अत्र
बौद्धमतमित्यनुक्ता '* वैनाशिकमतमित्युक्तिः । वैनाशिकशब्देन-
तत्र ये कृतका भावाः ते सर्वे क्षणभाङ्गनः ।
विनाशं प्रति सर्वेषामनपेक्षतया स्थितेः ॥ ३५३ ॥
-
इत्युपक्रम्य तत्वसंग्रहे क्षणिकत्वसाधनावसरे उक्ता युक्तिस्सूच्यते ।
तत्रैव—
अथवाऽस्थान एवायमायासः क्रियते यतः ।
क्षणभङ्गप्रसिद्धचैव प्रकृत्यादि निराकृतम् ॥
उक्तस्य वक्ष्यमाणस्य जात्यादेश्चाविशेषतः ।
निषेधाय ततः स्पष्टं क्षणभङ्गः प्रसाध्यते ॥ ३५९ ॥
इति वैनाशिक मतस्य पक्षत्रयप्रतिपक्षताऽपि स्फुटमभिहिता इति ।
न खलु प्रत्यभिज्ञानं प्रत्यक्षमुपपद्यते ।
वस्तुरूपमनिर्देश्यं साभिलाषं (पं) च तद्यतः ॥ ४४६॥
भ्रान्तं च प्रत्यभिज्ञानं प्रत्येकं तद्विलक्षणम् ।
अभेदाध्यवसायेन भिन्नरूपे प्रवृत्तितः ॥