2025-01-21 07:37:38 by ambuda-bot
This page has not been fully proofread.
318
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
भावप्रकाशः
न द्रव्यपोहविषया अतीतानागतास्ततः ।
[जडद्रव्य
इति (तत्वसंग्रहे) अत्र पञ्चिका – ' उक्तं हि भगवता अतीतं चेद्भि-
क्षवो रूपं नाभविप्यन्न श्रुतवानार्यश्रावकोऽतीतरूपेऽनपेक्षोऽभविष्यत् ।
यस्मात्तर्ह्यतीतं रूपं तस्माच्छ्रतवानार्यश्रावको ऽतीतरूपेऽनपेक्षो भवतीति
विस्तरः । तथा यत्किञ्चिद्रूपमतीतमनागतादि तत्सर्वमभिसंक्षिप्य
रूपस्कन्ध इति सख्यां गच्छतीत्यादि । किञ्च द्वयं प्रतीत्य विज्ञान-
मुत्पद्यते इति भगवतोक्तं । कतमहूयम् ? चक्षूरूपाणि यावन्मनो-
धर्माः इति' इति । किञ्च आसीन्मान्धानो ब्रह्मदत्तो भविष्यति
शङ्खश्चक्रवर्ती मैत्रेयस्तथागत इत्यादि' इति च । अत्रैव पूर्वं अस्माभिः
उदाहृतं (२९) 'कामेऽष्टद्रव्यकोऽणुशब्दः इति (न्या - वा-ता - टीकास्थं)
बुद्धवाक्यमप्येतत्पक्षे द्रव्याङ्गीकारेण स्वरसं । क्षणिकत्वोक्तिस्तु धर्मा-
णामागमापायितया तेषु क्षणिकता सम्भवेन तन्निबन्धना स्यात् ।
अत एव स्वलक्षणाभिधेयस्थिरद्रव्यविषयनिर्विकल्पकं प्रमा; क्षणिक-
धर्मावगाहिविकल्पोऽप्रमा इत्यपि सम्भाव्यते । एवं च निरन्वयविनाश-
वादितया वैनाशिकशब्दवाच्यबौद्धमतसामान्यस्य सांख्यादिप्रतिपक्षता
न युक्ता । तथाऽपि तत्व संग्रहे-
"
किञ्चातीतादयो भावाः क्षणिकाः स्युर्न वा यदि ।
आद्याः पुनस्तयोः प्राप्ता सैवापरिमिताध्वता ॥ १८३१ ॥
यः क्षणो जायते तत्र वर्तमानो भवत्यसौ ।
उत्पद्य यो विनष्टश्च सोडतीतो भाव्यनागतः ॥
अथाऽप्यक्षणिकास्ते स्युः कृतान्तस्ते विरुध्यते ।
इत्यादिना दूषणमभिधाय -
रूपादित्वमतीतादेर्भूतानां भाविनीं तथा ।
अध्यारोप्य दशामस्य कथ्यते न तु भावतः ॥ १८४६॥