2025-01-21 07:37:37 by ambuda-bot
This page has not been fully proofread.
सरः]
त्रिगुणपरीक्षायां क्षणभङ्गावतरणम्
317
सर्वार्थसिद्धिः
अर्धवैनाशिकनिरासाय सत्कार्यवादे साधिते तुल्यन्याय तया
सर्वनित्यत्ववादेन समुत्थितस्सांख्यो निरस्तः । अथ 'पक्ष
आनन्ददायिनी
सांख्यनिरसनानन्तरमेव वैनाशिकनिरसने संगतिमाह — अर्ध-
वैनाशिकेति । अर्धवैनाशिको — वैशेषिकः ।
भावप्रकाशः
* पक्षत्रयप्रतिपक्षमिति — यद्यपि तत्वसंग्रहे त्रैकाल्यपरीक्षायां शान्त-
रक्षितेन–
नोऽनुगमसाम्येन स्थिरत्वं मन्यते तदा ।
अवस्थाभेदवान् भावः कैश्चिद्बौद्धैरपीप्यते ॥
भाव-
इत्युक्तं । तत्र पञ्चिकायां 'भावान्यथावादी भदन्तधर्मत्रातः लक्ष-
णान्यथावादी भदन्तघोषकः अवस्थान्यथावादी भदन्तवसुमित्र : पूर्वापर-
मपेक्ष्य अन्यथाऽन्यधिको बुद्धदेवः' इति चत्वारोऽस्तिवादाः
लक्षणावस्थाऽन्यथान्यधिकसंज्ञिता विशदीकृताः । तत्र योगभाष्ये
लक्षणपरिणामविचारावसरे यदुदाहरणं तदेवात्राऽपि द्वितीयपक्षे उपन्यस्तं ।
अवस्थापरिणामविचारावसरे योगभाष्योक्तोदाहरणद्वये एकैकमुदाहरण-
मालम्ब्य तृतीयचतुर्थपक्षयोः पृथग्भावः । अतो नित्यात्मतत्ववादिनो
वात्सीपुत्रा इव एतेऽपि स्थिरद्रव्यवादिनो वैभाषिकैकदेशिनः सां-
ख्यच्छायानुसारिणः । तेच इत्थं द्रव्यस्य स्थिरत्वं साधयन्ति—
अतीताजातयोर्ज्ञानमन्यथाऽविषयं भवेत् ।
द्वयाश्रितं च विज्ञानं तायिना कथितं कथम् ॥ १७८८ ॥
कर्मातीतं च निस्तत्वं कथं फलदमिष्यते ।
अतीतानागते ज्ञानं विभक्तं योगिनां च किम् ॥