2025-01-21 07:37:35 by ambuda-bot
This page has not been fully proofread.
316
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
सर्वार्थसिद्धिः
क्रियावद्भिः पटादेश्व कारकैस्तादृशोऽन्वयः ।
प्रधाने भागनिष्पत्त्या भागैरैक्याच्च भागिनः ॥
प्राक्सत्त्वं सर्वभावानां मिथश्चैक्यमिति त्वसत् ।
भिन्नांश पूर्वसत्त्वे हि नाभिन्नाद्भेदसम्भवः ॥
भिन्नाभिन्नाद्यभिव्यक्तिर्भेदानां प्राक्तनी भवेत् ।
एकस्य प्रागसन् भेदो यदि स्यादस्मदिष्टवत् ॥
प्राक्सतोऽस्याप्यवस्था चेत्तथाऽप्यस्मदभीष्टवत् ।
इति सांख्योक्तसत्कार्यवादनिरासः.
आनन्ददायिनी
प्रधाने—उपादाने भोग्यांशस्य निष्पत्त्या तादृगन्वयस्साध्यसाधन-
भावान्वयोस्तु ; तथा च न कारकव्यापारखैयर्थ्यं भागिनोंऽशिन
उपादानस्य भाँगैरंशैरैक्यात्सर्वभावानां प्राक्सत्त्वमन्योन्यमैक्यं चेति
शङ्कते – क्रियावद्भिरिति । भेदः प्राक्सन्न वेति विकल्पमभिप्रेत्य
आद्यं दूषयति—भिन्नांशेति । नाभिन्नादिति । भेदस्यापि पूर्वसिद्ध-
त्वान्न कारकैः (कव्यापारसाध्यत्व) संभव इत्यर्थः । नन्वेकमेव वस्तु
भिन्नं चाभिन्नं च । तत्र कारकैर्भेदस्याभिव्यक्तिः करिष्यत इति
। तस्मादभिव्यक्तेरेव प्राक्तन्या न साध्यत्व-
मिति साऽपि न साध्येति दूषयति – प्राक्तनीति । द्वितीयं दूषयति-
एकस्येति । अस्मदिष्टवत् । अस्मदिष्टमस्मिन् वर्तत इत्यर्थः । इष्टयदिति
पाठान्तरं । इष्टं करोतीत्यर्थः ॥ २४ ॥
-